________________ 186 ] महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीपद्म विलोक्य रावणोऽप्येनं मालिनं तद्विभजने / ___आदिदेश तयोयुद्धं द्रष्टुं नेशा दिवौकसः // 799 // योधयल्लीलया तत्र मालिनं हनुमानपि / कृत्वा निरस्त्रं व्यमुचज्जरद्रक्षोदयोदयात् / 800 / अनूनवीर्यस्तत्मनुव्रजोदरोऽभ्युपागमत् / वीर्याद् धैर्यात् समानेऽस्मिन् बाणैः प्राणानमोचयत् // 801 // गर्जस्तं तर्जयन् जम्बूमाली रावणशासनात् / मारुतेः शासनायाऽगाद् यागाभिमुखमेषवत् // 802 // विधायाऽमुं सोऽञ्जनेयोऽप्यरथ्यरथसारथिम् / प्राहार्षीन मुद्गरेणाऽऽशु पपात भुवि पातकात् // 803 // जिघांसयाञ्जनेयस्य परेऽपि पर्यवेष्टयन् / शूरा दूरादेव विद्धाः शरैर्हनुमता समम् // 804 // नष्टा भ्रष्टायुषः केचिदवशिष्टाऽसयो वने / दृष्टा आकृष्टधनुषा भानुकर्णेन रोषतः // 805 // रक्षःपक्षस्य रक्षायै व्यगाहत रणांगणम् / कुम्भकर्णः शूलपाणिः पातयन् पद्मसैनिकान् // 806 // तमापतन्तं सुग्रीवो महेन्द्रः कुमुदोऽङ्गदः / भामण्डलो दधिमुखः समेत्य रुरुधुर्युधि 807 / प्रस्वापनास्त्रे तन्मुक्ते स्वापमाप कपिव्रजः / / तं सुग्रीवः प्रबोधिन्या विद्यया विदधे पटुम् // 808 // हन्तुं सुग्रीवमुत्तस्थौ भानुकर्णः समुद्गरः / खे समुत्पत्य सुग्रीवस्तस्योपरि शिलां दधे / 809 / तूर्ण चूर्णीकृताऽनेन तडिद्दण्डायुधं पुनः / चिक्षेप कपिराजोऽपि निषेध्याऽस्यायुधोच्चयम् // 810 // मूर्च्छया पतिते बन्धावन्धः क्रोधेन रावणः / न्यवारीन्द्रजिता देवबलेनाऽलं तवाऽधुना // 811 // रणेऽवतीर्णे कपयः पेतुः केतुनिदर्शनात् / द्रागिन्द्रजिति सुग्रीवोऽभ्याययौ जयहेतवे / 812 / पारेभे दम्भतः संख्यं मुख्यो रावणसुस्ततः / सुग्रीवेण समं कुर्वाः कम्पं पदाहतेः // 813 // तस्याऽनुजं भुजबली भामण्डलमहीपतिः / युद्धायामन्त्रयामास मेघवाहनमुनधीः // 814 // चत्वारोऽम्भोधयो बाणैस्तरङ्गैरिव दुस्तरैः / अखैर्विद्यामयैः शङ्कां रामरावणयोदुः / 815 /