________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् - [ 185 जयः पराजयश्चाऽपि निरणायि न केनचित् / असंख्याक्षौहिणीयोगे रामरावणयोस्तयोः // 782 // दशा दशाननस्यैवं वचसा राघवे जयम् / मेनिरे स्वेऽपरे सर्वे सीताया आनुकूल्यतः 783 / रावणे रुदिधात्वर्थाद् रामे क्रीडार्थभावनात् / साक्षादक्षनृणां पक्षेऽप्यमंसातां जयाजयौ // 784 // नलो नीलः पद्मसैन्यादारेभाते महाहवम् / हस्तं प्रहस्तं तद्भङ्गे रङ्गण रावणोऽमुचत् / 785 / यावदिनं युद्धविधौ विहस्तो हस्तपार्थिवः / नलेन निहतस्तद्वत् प्रहस्तो नीलभूभुजा / 786 / दशाननदशां न्यूनां पश्यन्तो हस्तपातनात् / लज्जिताः संज्जिताः प्रेयुर्मारीचशुकसारणाः // 787 // अहंमन्यास्तदन्येऽपि कामाक्षो मकरो ज्वरः / ' स्वयंभूः सिंहजघनो बीभत्सोऽर्कोऽपि चन्द्रमाः // 788 // गंभीरः सिंहरथ्यश्च भटा युयुधिरेतराम् / रौधिरेण प्रवाहेणारुन्धन् खड्गाभिघाततः / 789 / मदनाङ्कुरसन्तापप्रतापाक्रोशनन्दनाः / दुरितानघपुष्पास्त्रविघ्नप्रीतिकरादयः // 790 // कपयो राक्षसैः सार्द्ध युद्धं चक्रुर्महाबलाः / - मारीचरक्षः सन्तापं नन्दनो ज्वरराक्षसम् // 791 // उद्दामराक्षसो विघ्नं शुकं दुरितवानरः / रणायाह्वास्त सादृश्यात् प्रतन्वन्तः शराशरि 792 / प्रथितं कपिमाहूय युयुधे बहुधायुधैः / राक्षसः सिंहजघनः क्रमादस्तो दिवाकरः // 793 // प्रातः पद्मोदयं शंसन् निशाचरनिरोधकृत् / सूरः समुदियायोच्चैरुदयाचलभूषणम् // 794 // सीतालाभदशाप्रीतः स्फीततेजा दिशां तमः / अजन्यं हर्तुमिव तदुद्यतो रसहद्रविः // 795 // राक्षसास्तमसां मैत्री प्रपन्ना इव वानरैः / छलात् कलाबलात् सर्वे ध्वस्ता गर्वैकपर्वताः // 796 // रावणः श्रावण इव शरधाराः प्रवर्षयन् / . मध्येसैन्यं कपिबले दैन्यं दातुं समीयिवान् // 797 // . दृष्ट्वा ययौ दशग्रीवं सुग्रीवः पीवरौजसा / तं निवार्याञ्जनेयोऽगाज्जने योगाय वारिभिः // 798 // लं. त्रि. 24