________________ 184 ] महोपाध्यायश्रीमन्मेघविजयविरचितम् [श्रीपद्म हंसद्वीपेऽष्टदिवसानतीत्य राघवोऽचलत् / . __ सैन्यं तदारुद्धभूमेः स्थित्वा विंशतियोजनीम् // 766 // दशग्रीवस्य सेनायां प्रहस्तप्रमुखाः नृपाः / सर्वं संवर्मयामासुः सुग्रीवाद्याः परत्र च // 767 // गजाश्वखरशार्दूलसैरिभव्याघ्रवाहनाः। तथा रथाश्रिताः केचित् सूरा दूरादुदायुधाः / 768 / भानुकर्णः शूलपाणिर्वजपाणिरपीन्द्रजित् / .. मयः समयवेदी स चेदीशः सारणो नृपः // 769 // शुकसुन्दादयोऽन्येऽपि खेचरा भूचरा अपि / __रक्षःपतेः पक्षमीयुर्लक्षशः कोटिशो भटाः // 770 // चन्द्रार्कसिंहशरभगजकेकिमहोरगम् / मार्जार कुक्कुटं केतौ दधानाः स्वीयलक्षणम् // 771 // कृपाणपाणयः केचिद् धनुर्ननु मनुष्यभित् / मुसण्ढी मुद्गरं शूलं वहन्तो हन्त रेजिरे 772 / जाग्रन्महोभिः कुन्तायै दीपयन्तो रणाङ्गणम् / विविशुस्तुरगक्षुण्णरेणुना तमसा वृतम् // 773 // तदा मेघः शरधारामयः प्रववृते मिथः / यशोद्गु रुदियायात्राऽपयशः कर्दमोऽपि च / 774 / योऽदात् प्रहारं रिपवे तस्मै हारं तदीश्वरः / ___ मुक्ताशुवेगान् मुक्तासुदानं प्रववृते विभोः // 775 // इभस्य दाने विहिते स्वामीभदानमादिशत् / नोदनानोदना दित्सा जाता स्वस्वामिनः पुनः // 776 // इतो रक्षश्चमूः श्यामा यमुना कपिवाहिनी / न्यायपक्षाश्रयात् शुभ्रगङ्गासङ्गादिव व्यभात् // 777 // . स्वं स्नानेन पुनाना तत्तीर्थे जज्ञे सरस्वती / धारया रुधिरोद्गाराधारया सा रयादपि / 778 / स्मारं स्मारं स्वसादृश्यं कारं कारमघाहवम् / आहवं सुभटास्तेऽनु तत्यजुस्तनुरक्षणम् / 779 / कातराः प्रातराशाय रणं मुक्त्वा यियासवः / __ हास्याद् दास्यानिजैर्ना जिता रिपुजाङ्गलैः // 780 // रणकोलाहलोद्भूतौ ननृतुः केऽपि सायुधाः / नराः सवानरा उच्चैः स्वनामा दिधीर्षवः // 781 // 1. दानं खण्डनम् /