________________ चरितम ] लघुत्रिषष्टिशलाकापुरुषचरितम् [ 183 लङ्कायामपि रामस्य सशङ्कायां समागमात् / हस्तप्रहस्तमारीचा मिमिलुः सेनयान्विताः // 751 // रणाय सहसा सर्वेऽप्याजग्मुः सहसारणाः / तूर्याणि सूर्यतुरंगांस्वासयामासुरारवैः / 752 / विभीषणोऽब्रवीद् भ्रातरातिथ्यं कुरु पथ्यवत् / भार्यानयनकार्याय रामायौचित्यचिन्तनात् // 753 // अनया त्वनयाहत्या सभृत्या कुलसन्ततिः / क्षयमाप्स्यति ते रक्षादक्षां शिक्षा विधेहि मे // 754 // अथेन्द्रजित् समाचख्यौ कि विभेषि पितृव्य ते / वार्धक्यं प्राप्तमाधिक्यं शाधि मुक्तः पितास्य किम् ? // 755 // रामं सङ्ग्रामसन्नद्धं रक्षितुं दक्षताऽक्षता / तत्पाक्षिकोऽसि याहीतोऽहितेच्छुरहितो त्वकम् // 756 // एवं तयोर्जायमाने विवादे क्रोधमन्दधीः / खड्गमाकृष्य सीताहृत् दधावे भ्रातृमृत्यवे / 757 / कुम्भकर्णेनेन्द्रजितांतरापच्यनिवारणे / - मुक्त्वा लङ्कां कलङ्काकां रामं प्राप विभीषणः // 758 / / त्रिंशदक्षौहिणीयुक्तमापतन्तं बिभीषणम् / मत्वा रामः स्वविश्वासस्थानं सुग्रीवमैक्षत / 759 / जगाद सादरं स्वामिन् ! आयात्वेष स्वकारणम् / वक्ताशक्तास्त्वत्प्रसादानमिलनेऽवहिता वयम् // 760 // सविवेकं नरं चैकं प्रेषीत् सन्धानहेतवे / सोऽप्यागत्य द्रागवादीद् रावणत्यागकारणम् // 761 // निर्वासितोऽयं लङ्कायाः सीतामोचनमुद्दिशन् / बिभीषणस्त्वां शरणं प्रपद्यताददूषणः / 762 / सप्रत्ययं चरेणैत्योक्तां प्रवृत्तिं निशम्य ताम् / द्वास्थप्रवेशितं रामः सामन्तं तं प्रपेदिवान् // 763 // सोऽप्यलकारसौवर्णभारहस्त्याधुपायनैः / प्रसादयन् पद्मपादपद्मयोर्मस्तकं न्यधात् // 764 // एहि लकेश्वरेत्युक्तिः पद्मस्य निश्चिताऽस्तु मे / एवं वदन् नमन् राज्ञा प्रीणितः स्वीकृतेगिरा // 765 // दशवक्त्रभटौ सेतुसमुद्रौ सागराजिरे / बबन्ध रामश्चिच्छेद सीताशां रावणस्य तु // इति शत्रु जयमाहात्म्ये //