________________ 178 ] महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीपद्म सीताया मानसं तोषं कर्तु हतुं च रोषणम् / अधिरोह्य विमानं तां क्रीडास्थानान्यदर्शयत् // 675 // प्रेमालापैविलापैश्च त्वदृते मृतिरेव मे / इत्याद्यैर्देवजापैश्च सा नैच्छत् तन्मुखेक्षणम् // 676 // कियत्यपि गते काले प्राहिणोल्लक्ष्मणं पुनः / रामः सुग्रीवनृपति प्रति पातुं निजं वचः / 677 / क्रोधात् सुग्रीवबोधाय वचोऽवोचत् स तं प्रति / संप्रति प्रतिपन्नं किं व्यस्मार्षीः कपिनायक // 678 // रामचापलता दूरे तव चापलतां पलात् / करिष्यति न किं वेत्सि रामोपकृतिमात्मनि / 679 / ततः सुग्रीवभूपोऽपि सर्वग्रामपुरादिषु / उद्यतः शुद्धिमाधातु परेऽपि प्रेषिताश्चराः // 680 // कम्बुद्वीपे रत्नजटी सुग्रीवं प्रेक्ष्य शङ्कितः / / __ मद्वधाय दशास्येन प्रेषितोऽयं विमृश्यते // 681 // कथं न कुरुषे मित्राऽभ्युत्थानादिविधिं मयि / प्रणयिन्यागते किश्चिद् बाधितं दृश्यते वपुः // 682 // इति प्रश्ने रत्नजटी प्राह सुग्रीवभूपतिम् / न जानासि सुहृत् सीताहरणे रणकारणम् / 683 / विद्याः सर्वा मेऽपहताः रावणेन बलीयसा / रामं जगाम सुग्रीवस्तं सहादाय साक्षिकम् // 684 // स्वपाक्षिकं तं सच्चक्रे सीतोदन्तप्रमोदतः / सुरसङ्गीतपूर्नाथं पप्रच्छ रावणाश्रयम् // 685 // जगदुर्जगदुत्सेकं नाथ ! तस्य किमुच्यते / तदुद्धरतु सौमित्रिः साक्षात् कोटिशिलामपि // 686 // स्वपक्षरक्षकाणां स्यान् मनसः प्रत्ययोऽप्यतः / इत्युक्ते सर्वसामन्तैः स्थामेक्षायै च लक्ष्मणे // 687 // स्फुटं सौमित्रिणोदः दशार्णभूध्रवर्तिनी / प्रत्यक्षं सर्वभूपानां तदा कोटिशिलाऽचला // 688 // ततो रणप्रेरणायां मिलिता भूभुजो भटाः / भुजौजसा जगज्जेतुं प्रत्यानेतुं च जानकीम् / 689 / सुग्रीवो जाम्बवान भूपौ मन्त्रं चक्रतुरान्तरम् / प्रेष्यः प्रथमतो दूतः संधानध्यानसाधनः // 690 // 1. कोटिशिला भाटे * परिशिष्ट' मे.