________________ 170 ] महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीपा रामेणोक्तं न मे किश्चित् परं कुरु जिनालयान् / ___ तथाकृते सुरेणाऽभूत् तीर्थ रामगिरिस्ततः // 555 // अथ वंशस्थलाधीशः सुरप्रभनृपोऽनमत् / रामं पुरोपसर्गस्य हर्तारं सहलक्ष्मणम् // 556 // रामाज्ञयाऽर्हच्चैत्यानि शैले तत्राऽप्यकारयत् / रामनाम्ना रामगिरिस्तीर्थमासीत् तदादितः // 557 // रामः प्रचण्डदोर्दण्डवीर्यः प्राविशदञ्जसा / दण्डकारण्यमद्रौ च गुहायां वासमातनोत् // 558 // द्विमासीतपसः प्रान्ते पारणार्थमुपागतौ / नाम्ना त्रिगुप्तसुगुप्तौ रामादिभिश्च वन्दितौ // 559 // चारणी धर्मलाभं दत्त्वा तेभ्यो निषीदतुः / यथोचितैरन्नपानैः सीतया प्रतिलाभितौ / 560 / रत्नगन्धाम्बुवृष्टिश्च कृता देवैश्च भक्तितः / विद्याधरो रत्नजटी सुराभ्यां सह चाऽगमत् // 561 // रामाय ते ददुः साश्वरथं गन्धाम्बुतः खगः / गन्धाभिधो द्रुमोत्तीर्णस्तद्वास्तव्यः समीयिवान् // 562 // साधुदृष्टेः प्राप्तजातिस्मृतिर्मूछी समापिपत् / सीता जलैस्तं न्यषिश्चत् संज्ञामाप्य समुत्थितः // 563 // . साधुपादनमस्कारस्पौषधीप्रलब्धितः / नीरोगो रोगवानासीत् पक्षौ हेममयौ ततः // 564 // चञ्चुदेशे विद्रुमश्रीः पद्मरागप्रभौ पदौ / नानारत्नप्रभो देहो जटारत्नघटाचिषः // 565 // जटायुरिति नामाऽस्य खेचरस्याऽपि पक्षिवत् / / बभूव भुवि ताद्रप्यानिरूप्या स्यात् स्थितिर्जने // 566 // रामपृष्टः सुगुप्तर्षिरथाचष्ट विशिष्टधीः / कुम्भकारकटं नाम्ना पुरमत्र पुराऽभवत् / 567 / तस्यां राजा दण्डकोऽयं श्रावस्त्यां च तदा नृपः / जितशत्रुस्तस्य राज्ञी नाम्नाऽजायत धारिणी // 568 // स्कन्दको नाम तत्सूनुः पुरन्दरयशाः सुता / ___ दण्डकस्तां पर्यणेषीजूजज्ञे स्नेहो महाँस्तयोः // 569 // अन्यदा पालकं दूतं प्रेषयामास दण्डकः / जितशत्रुजैनधर्मी तद्भर्म स न्यषेधयत् // 570 //