________________ चरितम् / लघुत्रिषष्टिशलाकापुरुषचरितम् [ 169 नत्वा चैत्यानि सम्मेते प्रपाल्य चरणं चिरम् / प्रान्तेऽनशनतः शुक्रे सुन्दरोऽन्यः सुकोशकः // 537 // सुरौ महद्धिको जातौ वसुभूतिभवान् भ्रमन् / क्वाऽपि तापसतामाप्य धूमकेतुः सुरोऽजनि // 538 // शुक्राच्च्युतौ तौ तनुजौ प्रियंवदमहीपतेः / पद्मावत्यामजायेतां पूर्वो रत्नरथाह्वयः / 539 / परश्चित्ररथो धूमकेतुजीवसुरश्चयुतः / तत्रैव कनकाभायां राज्ञोऽनुद्धरवाक् सुतः / 540 / प्रियंवदे दिवं प्राप्ते राज्ये रत्नरथे स्थिते / अनुद्धरश्चौररीत्याऽलुण्टयत् तत्पुरादिकम् / 541 / छलेनाऽपि बलेनाऽपि तं गृहीत्वा विडम्ब्य च / राजा रत्नरथोऽमुञ्चत् तापसोऽनुद्धरोऽभवत् // 542 // भवान् भ्रान्त्वा पुनर्भूत्वा तापसः तपसाधिकः / - मृत्वाऽनलप्रभो ज्योतिर्देवो मिथ्यागप्यभूत् // 543 // प्रव्रज्य भ्रातरौ रत्नरथचित्ररथौ तपः / तप्त्वाऽच्युते सुरौ चातिबलस्तथा महाबलः / 544 / सिद्धार्थनगरे क्षेमंकरस्य नृपतेः सुतौ / विमलायामभूतां तौ भूषणौ कुलदेशयोः // 545 // उपाध्यायगृहेऽधीतौ द्वादशवत्सरावधि / : आगतौ स्वपुरे चैककन्यां दृष्ट्वाऽनुरागिणौ // 546 // तामेव मातुनमने पार्श्वे दृष्ट्वाऽतिसुन्दराम् / पृष्टाम्बाऽचष्ट भगिनी हिया जगृहतुव्रतम् / 547 / क्षेमंकरः पिताऽप्येतद्वियोगे व्रतसंग्रही / गरुडेशोऽभवन्नाम्ना महालोचनसंज्ञया // 548 // अनलप्रभदेवस्योपद्रवे सोऽप्युपागतः / पूर्वस्नेहात् तिरश्चक्रे तं देवमनलप्रभम् // 549 // अनन्तवीर्यस्य मुनेर्ययौ केवलिनोऽन्तिके / शिष्येण केवली पृष्टोऽनलप्रभेऽप्युपस्थिते / 550 / मुनिसुव्रततीर्थेऽत्र कः पश्चात् तव केवली / तेनोचे मम निर्वाणे केवली कुलभूषणः // 551 // देशभूषणनामाऽपि भाविनौ केवलान्वितौ / ततोऽनलप्रभेणाऽत्र विदधे ह्यपसर्जनम् / 552 / उत्पनमावयोस्तत्रोपद्रवेऽपि क्षमाबलात् / केवलं तत्सन्निधानाद् रामस्तत्राऽऽजगाम च // 553 // . महालोचनदेवोऽपि रामं प्रोचे त्वया कृतम् / वारणं चोपसर्गस्य तत् साधु त्वं वरं वृणु // 554 // ल. त्रि. 22