________________ 164 ] महोपाध्यायश्रीमन्मेघविजयविरचितम् [श्रीपन तद् राज्यं भरतायादो दत्त्वाऽऽदास्ये स्वयं व्रतम् / रामः कामं साधु तात तथास्तु चिन्तयाऽप्यलम् // 465 // ततोऽभ्युपेत्य भरतः प्रोचे रामाय चोचितम् / अनुजे राज्यविन्यासः क्रमो येन विभेद्यते // 466 // माता ज्ञाता भूषणादेर्नादेयं तद्वचोऽधुना / राज्ये न्यायान्यायतर्कः प्राधान्यं तत्र न स्त्रियाः // 467 // नाऽहमुत्साहवान् राज्ये बालोऽहं मोहधी शम् / ___ तवाज्ञायां समाज्ञा मे ताततुल्यस्य साम्प्रतम् // 468 // अग्रजे त्वयि विश्वार्केऽभ्युदिते विदिते जने / किं प्रदीपप्रभातुल्या मयि स्याद् राज्यधारणा // 469 // भरतेऽनारतं सम्यग् विनयोपनयं विदन् / रामः पितरमित्याह राज्यं नाङ्गीकरोत्ययम् // 470 // ममादिश वनादेशं देशं बहुविधं यतः / जाने ज्ञानेन विचरन् सूरे नित्यगतिहिता // 471 // एवं नृपमनुज्ञाप्य प्रबोध्य मातरं गिरा / सर्वलोकं यथायोगं रामः सम्भाष्य निर्ययौ / 472 / पतिव्रतात्वं निर्णीय सीताऽपि सहचारिणी। बभूवाम्बुधरस्येव विधुद्रामस्य सान्वयात् // 473 // लक्ष्मणः स्नेहपरमो विना राममशक्नुवन् / स्थातुं भोक्तुं पयः पातुमिति दध्यौ स्वमानसे // 474 // नाभुक्ते मयि योऽभुङ्क्त नासुप्तेऽशेत चेतसा / रामोऽविरामप्रीत्या मे विरहेऽसहनः स हि // 475 // मयाऽनुगम्यस्तत् तातमनुयोज्य च मातरम् / सूरादृतेन दिवसः स्थिरः श्रीभाक् च न क्वचित् // 476 // अनुज्ञाप्य गुरुवर्ग सोऽन्वियाय वनान्तरे। ___ त्रयोऽपि चलिता याम्यां दिशमुद्दिश्य साहसात् // 477 // चित्रकूटगिरिं प्राप्य कतिचिद्दिवसान्तरे / उज्जयिन्या जयश्रीमान् सदेशं देशमाप्तवान् / 478 / सिंहोदरवज्रकर्णभूपयोस्तत्र विग्रहम् / रामः प्रशमयामास सन्धि कृत्वा द्वयोरपि // 479 //