________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् [ 163 सूर्यजयाह्वयस्तत्र रत्नमालीरिपोः पुरम् / ज्वालयन् स सहस्रारदेवेनागत्य बोधितः / 447 / स देवः प्राग्भवं स्वीयं जगाद रत्नमालिनः / त्वं भूरिनन्दनो राजा प्राग्भवेऽहं पुरोहितः // 448 // तत्र राज्ञा मांसभुक्तिः प्रत्याख्याता विवेकिना / पुरोधसा तु तद्भङ्गः कारितो भूपतेः पुनः // 449 // स पुरोधाः स्कन्दनाम्ना तदैव विनिपातितः / गजो वनेऽभूत् तेनैव राज्ञा स ग्राहितो बलात् // 450 // स गजः क्वाऽपि सङ्ग्रामे मृतस्तस्यैव भूभुजः / - गन्धारायां स्त्रियां पुत्रोऽभवन्नाम्नाऽरिसूदनः // 451 // जातेऽस्य जातिस्मरणे प्रव्रज्य जिनशासनी / सोऽहं सुरः सहस्रारे पुण्यात् समुदपद्यत / 452 / भूरिनन्दनराजोऽपि लेभेऽजगरतां वने / दवाद् दग्धो द्वितीयस्यां संप्राप्तौ नरकावनौ / 453 / पूर्वस्नेहान्नरकेऽपि गत्वा मया स बोधितः / क्षिप्तकर्मा रत्नमाली त्वमभूः खेचराग्रणीः / 454 / मांसप्रत्याख्यानभङ्गाद् यद् दुःखं तत त्वया मया / अनुभूतं विरमाऽस्मात् पुरज्वालनपातकात् // 455 // एवं देवप्रबोधेन रत्नमाली न्यवर्त्तत / सूर्यनन्दनमाधाय राज्ये संवेगमादधौ // 456 // सूर्यञ्जयेन पुत्रेण सह दीक्षां नृपोऽग्रहीत् / मुक्त्वा राज्यं क्रमाद् भेजे गुरुं तिलकसुन्दरम् / 457 / महाशुक्रे पितृपुत्रावजायेतां सुरोत्तमौ / च्युत्वा सूर्यजयो भूस्त्वं राजा दशरथाऽभिधः / 458 / रत्नमाली तु जनकः पुरोधाः कनकोऽनुजः / जनकक्ष्मापतेरेवं सम्बन्धः पूर्वजन्मनि / 459 / यो नन्दिवर्द्धनभवे नन्दिघोषः पिता तव / सोऽहं ग्रैवेयके भूत्वा सत्यभूतिरिहाऽभवम् // 460 // खं पूर्वभवसम्बन्धं भावयन् भावसाधुवत् / निवृत्तचेताः संसाराद् राज्य स्थितिमसूत्रयत् / 461 / अन्यदा वार्द्धके राजा जिहासुर्भवसङ्करम् / रामे राज्यं समाधातुं मन्वं मन्त्रिभिरादधे / 462 / कैकेय्याः स्मारितः पूर्व कोशन्यस्तो वरस्ततः / .. वृणु त्वं यदभीष्टं ते प्रिये दशरथोऽवदत् // 463 // देहि राज्यं भरतायेत्युक्तः क्षमापो न्यमन्त्रयत् / रामं सलक्ष्मणं चैवं प्रोचेऽदायि मया वरः // 464 //