________________ 162 ] .. महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीपद्मइयच्चिरात् किमायात इति प्रश्ने स चोचिवान् / __ जातो जराजर्जराङ्गः शनैश्चलनमेव मे // 432 // निशम्य राजाऽप्यनिशं तस्थौ भवविरक्तधीः / अत्रान्तरे सत्यभूतिं तत्राप्तं प्रणनाम सः // 433 // रथावर्तगिरौ जैनीः प्रतिमाः खचराधिपः / नत्वा प्रतिव्रज॑श्चन्द्रगतिरप्याययाविह // 434 // भामण्डलस्य सीतायाः प्राग्जन्माऽपृच्छदञ्जसा / मुनिराख्यत् तदाख्यानं युग्मजन्मान्तमद्भुतम् // 435 // भामण्डलः स्वसारं तां नमश्चक्रे प्रबुद्धधीः / सीताऽपि हृष्टा भ्रात्रेऽदादाशिषं विहितोदयाम् // 436 // जनकश्च विदेहोऽपि मत्वा बालापहारणम् / जहर्षतुश्चन्द्रगतेगिरा भामण्डलोऽनमत् / 437 / भामण्डले राज्यभारमारोप्य भवजातभीः / सत्यभूतिगुरोर्दीक्षां श्रीचन्द्रगतिराददे / 438 / सत्यभूतिं मुनि नत्वाऽपृच्छद्दशरथो भवान् / सेनापुरे भावनस्य वणिजो दीपिका प्रिया // 439 // तयोः पुत्री प्राग्भवे त्वमुपास्तिर्नाम दुर्मतिः / साधूनां प्रत्यनीकाऽसौ निन्दायां निरता मुनेः // 440 // ' मृत्वा बहुभवान् भ्रान्त्वा तज्जीवश्चन्द्रपुर्यभूत् / धनो वणिक सुन्दरी स्त्री तत्सूनुर्वरुणाह्वयः // 441 // सदाचारः साधुदानतत्परः स क्रमान् मृतः / युगली धातकीखण्डद्वीपोत्तरकुरुष्वभूत् // 442 // देवो भूत्वा ततश्च्युत्वा विजयः पुष्कलावती / पुष्कलानगरी तस्यां राजभूर्नन्दिवर्द्धनः // 443 // तनयोऽयं नन्दिघोषनृपपृथ्वीप्रियोद्भवः / राज्यं भुक्त्वा प्राप्तदीक्षो यशोधरमुनेरभूत् / 444 / ग्रैवेयके सुरस्तस्माश्च्युतः श्रावकजन्मनि / व्रतभृद् ब्रह्मलोकेऽपि सुरोऽभूत् स ततश्च्युतः // 445 // प्रत्यगविदेहे शशिपू:स्वामी विद्याधराधिपः / रत्नमाली प्रिया विद्युल्लता पुत्रस्तयोरभूत् // 446 //