________________ चरितम ] लघुत्रिषष्टिशलाकापुरुषचरितम् . [ 161 क्रुद्धो युद्धोत्सुको रूपं सीतायाः पटलेखितम् / भामण्डलाय देवर्षिदेर्शयन् मोहनं व्यधात् // 417 // तन्मत्वाऽयं चन्द्रगतिर्जनकस्यापहारणम् / अह्नाय चपलगतिनाऽकारयद् बहुमानतः / 418 / ययाचे तं सूनवे मे सीतां देहीति सोऽप्यवक् / दत्ता रामाय कन्येयं पुनातुं न साहति // 419 // यद्येवं तर्हि मद्गेहे धनुर्द्वयं पुराऽस्ति तत् / .. वजावतीर्णवावर्ताऽख्ययाऽधिज्यं करोति यः // 420 // स एव परिणेताऽस्या इत्युक्तिः खेचरेशितुः / प्रमाणीकृत्य जनकः स्वयंवरमहं व्यधात 421 / मण्डपे मञ्चधोरण्यां स्थितेषु सर्वराजसु / . एत्य सीतोपकोदण्डं मण्डपेऽलङ्कृता स्थिता // 422 // तां वरीतुं समुत्तस्थुः खेचरा भूचरा अपि / केनाप्यैक्षि धनुः सर्परूपं वह्रिस्वरूपभृत् // 423 // रामः स्थामपरः काममधिज्यमकरोद् धनुः / * एकं तदन्यद् रामाज्ञालक्ष्मणा लक्ष्मणस्तथा // 424 // चिक्षेप सीता वरणस्रजं रामगलस्थले / अष्टादशान्याः कन्याश्च लक्ष्मणाय ददुः खगाः / 425 / जाते महोत्सवे तत्र विवाहे रामसीतयोः / विलक्षाश्चन्द्रगत्याद्या ययुर्भामण्डलान्विताः // 426 // कनको जनकभ्राता भरताय सुतां ददौ / भद्रां सुभद्रां भूपोऽन्यः शत्रुघ्नाय स्वयंवरे / 427 / अन्यदा जिनचैत्येषु महं चक्रे नाऽरण्यजः / शान्तिस्नात्रजलं राममातुः कञ्चुकिनाऽमुचत् // 428 // तया नाप्तं शान्तिजलं परासां शिरसाचितम् / . तद् विमृश्याऽपमानेन कौशल्या शल्यमाप्नुषीः // 429 // मुमूर्षुगलपाशेन देवात् तत्रागमन्नृपः / - छित्त्वा पाशमपृच्छत् तां वद दुःखस्य कारणम् // 430 // कञ्चुकी तावदागत्य शान्तिस्नात्रपयोऽर्पयत् / नृपस्तस्यां स्वयं सिञ्चन् ह्रिया (1) सा तमवारयत् // 431 // ल. त्रि. 21