________________ 160 ] महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीपद्म पुण्यप्रागुण्यतो बालसौकुमार्यात् कृपालुना / रथनू पुरपार्थाद्रौ मुमुचे स्वरुचेः शिशुः // 402 // खेचरेशश्चन्द्रगतिश्चरन् स नन्दने वने / उपाददे नन्दनवत् पालयामास तं पुनः // 403 // भामण्डलोऽयमित्याख्यां विदधे दीप्तिमत्तया / जनकोऽपि शिशोर्वार्ता न लेभे प्रेषितैनरैः // 404 // दुहितुर्नाम सीतेति कृत्वा तां समवर्द्धयत् / तारुण्येऽस्याः पुण्यवन्तं वरं पप्रच्छ मन्त्रिणः // 405 // अत्रान्तरे दैत्यभूपैविषयो जनकस्य सः / बबाधे ग्रामनगरवसतिप्रतिरोधनैः // 406 // दूतः स्वाकूतसंवादिपूतोद्भूतधियाऽमुना / प्रहितस्सहितः सर्वोदन्तैर्जनकभूभुजा // 407 // / स गत्वाऽऽख्यद् दशरथभूभुजे जनकः सुहृत् / त्वां विज्ञापयति स्वामिन् म्लेच्छानां देशभञ्जनम् // 408 // दक्षिणस्यां च वैताढयाद् देशो नाम्ना बर्बरः / मयूरमाले नगरे रसातुङ्गतमो नृपः / 409 / तत्पुत्रा अपि देशेशाः प्रतिस्थानं ससैनिकाः / __ भञ्जन्ति दिव्यचैत्यानि लुण्टन्ति पत्तनान्यपि // 410 // अनारतं तवेष्टस्य धर्मस्य जनकस्य सः / तत् त्रायस्व भयादस्मादस्मच्छरणकृत् त्वकम् // 411 // भूपे दशरथे श्रुत्वा प्रवृत्ति दूतवाक्यतः / कुर्वाणे चलनोद्देशं रामः प्रोचे संहानुजः // 412 // तात नातः परं म्लेच्छोच्छेदं कर्तुं स्वयं गमः / साम्प्रतं साम्प्रतं देया निर्देशा मादृशे सुते // 413 // एवं निवार्य पितरं ययौ रामः सहानुजः / मिथिलायां रणारम्भेऽनाशयत् तान् महाभुजः // 414 // म्लेच्छकष्टे रयान्नष्टे सीतां तुष्टः पिता ददौ / / रामाय जनकक्ष्मापः प्राप लोकोऽप्यशोकताम् // 415 // सीतारूपमथाऽन्वेष्टुं नारदं प्राप्तमञ्जसा / दृष्ट्वा सीता परं भीता दास्यादिस्तं न्यवारयत् // 416 //