________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् [ 159 कैकेय्या भरतः सूनुः शत्रुघ्नः सुप्रभाङ्गजः / चतुर्भिस्तनयैस्तेजोऽधिक्याद्दशरथो बभौ // 386 // जम्बूद्वीपान्तरे क्षेत्रे भरते दारुनामनि / ग्रामे द्विजो वसुभूतिरनुकोशास्य कामिनी // 387 // सुतोऽभिभूतिरनयोस्तत्कान्ता सरसाह्वया / कयानविप्रस्तां रागादपजहे स्मरातुरः / 388 / तां विलोकयितुं पुत्र गते दुःखातुरौ भृशम् / पितरौ व्रतमाधाय विपद्याद्यदिवं गतौ !389 / वसुभूतिश्च्युतस्तस्माद् रथनू पुरभूपतिः / नाम्ना चन्द्रगतिः खेटः पूर्वप्रियाऽप्यभूद् वधूः // 390 // नाम्ना पुष्पवती रक्ता पत्यौ सा सरसा पुनः / व्रततीव्रतया मृत्वा जातेशाने सुरी वरा // 391 // जीवोऽभिभूतेर्दुःखाभ्रान्त्वा बहुभवानभूत् / हंसः श्येनहतः साधोर्नमस्कारं च सोऽशृणोत् // 392 // विपद्य किन्नरसुरो जघन्यायुरजायत / ततो विदग्धनगरे प्रकाशसिंहदारकः // 393 // जज्ञे च प्रवरावल्यां नाम्ना कुण्डलमण्डितः / -- कयानोऽपि' भवान् भ्रान्त्वा पिङ्गलाख्यः पुरोहितः // 394 // तत्र चक्रध्वजनृपाङ्गजातिसुन्दरी छलात् / अपहत्य विदग्धाख्ये नगरेऽगादगाकुले // 395 // ततोऽतिसुन्दरीं दृष्ट्वा जहे कुण्डलमण्डितः / पितुर्भयादुर्गभूमौ कृत्वा पल्ली स तस्थिवान् // 396 // 'अतिसुन्दर्यपहारात् पिङ्गलो विरहादितः / . - आर्यगुप्तगुरोर्दीक्षां लात्वा तपांसि तेपिवान् // 397 // मुनिचन्द्रमुनेधर्म श्रुत्वा कुण्डलमण्डितः / श्रावको राज्यलिप्सावान् मृत्वाऽभूजनकात्मजः // 398 // सरसाया अपि तदा जीवः कुर्वन् बहून् भवान् / - प्राक् सम्बन्धाद् विदेहायाः पुत्रीत्वेनोदपद्यत // 399 // साऽसूत युग्मं युगपत् पुत्रं पुत्रीं च सुन्दरम् / / पिङ्गलोऽपि मृतो देवः सौधर्मदिवमीयिवान् // 400 // स प्रेक्ष्य पुत्रं वैदेहं सुरो बाल्यादपाहरत् / हृतातिसुन्दरी मे स्त्री प्रागनेनेति वैरधीः / 401 // 1. कयाननामा विप्रः।