________________ चरितम् | लघुत्रिषष्टिशलाकापुरुषचरितम् शुक्लध्यानेऽधिरूढः स गात्रघातमचिन्तयन् / केवलज्ञानवान् मोक्षं लेभे धैर्यात् सुकोशलः // 355 // धीरो भूधरवत् कीर्तिधरः स्वात्मैकभावनः / विहितानशनः सिद्धिं जगाम प्राप्तकेवलः / 356 / चित्रमालाऽसूत सुतं सुकोशलनृपप्रिया / हिरण्यगर्भ तत्कान्ता मृगावती पतिव्रता // 357 // तयोः सुतोऽभूनघुषस्तत्प्रिया सिंहिकाह्वया / / सोदासनामा तत्पुत्रस्तं राज्ये न्यस्य दीक्षितः // 358 // सोऽष्टाह्निकोत्सवे जैने निषिद्धो मांसभक्षणे / तत्प्रियो नृपलं भुक्त्वा नृचक्षा इव दुष्टधीः // 359 // राज्यभ्रष्टो वने भ्राम्यन् मांसत्यङ् मुनिवाक्थतः / - अपुत्रनृपराज्येऽस्थाज्जिग्ये सिंहरथं सुतम् // 360 // दत्त्वा तस्मै राज्ययुगं प्रव्रज्याऽगाच् छिवं गुरोः / ___ सुतः सिंहरथस्याऽपि राजा ब्रह्मरथोऽजनि // 361 // चतुर्मुखहेमरथौ नृपः शतरथस्ततः / उदयोऽस्मात् पृथुरिरथ इन्द्ररथस्ततः // 362 // आदित्यरथमांधातृवीरसेनाः क्रमानपाः / _ प्रतिमन्युः पद्मबन्धू रविमन्युस्तु तत्सुतः // 363 // वसन्ततिलकस्तस्मात् कुबेरदत्ततः पृथुः / तद्राज्ये रत्नमणयः प्रादुरासन् धरान्तरात् / 364 / . शरभो द्विरदः सिंहदशनो हिरण्यपूर्वकः / कशिपुः पुञ्जनाम्नाऽतः स्थलः ककुत्स्थ इत्यतः // 365 // दिलीपो रघुराजश्चेत्येषां सिद्धिश्च केषुचित् / सुरालयोऽन्याऽपि गतिरासीत् कर्मानुसारिणी // 366 // अनरण्यो नीतिरीते रज इत्यपराह्वयः / पृथव्यां सुतावुभावस्याऽनन्ताच्चदशतो रथौ / 367 / अनरण्योऽनन्तरथं सहादाय व्रतं ललौ / सहस्रकिरणे मित्रे दीक्षामार्गमुपेयुषि // 368 // अनरण्ये मोक्षमाप्ते भुव्यनन्तरथो मुनिः / विजहार हरन् पापं जनानां प्रतिबोधनात् // 369 // स्ववंशपरिपाट्याप्तं जैनधर्म प्रदीपयन् / नृपो दशरथः कन्या उपयेमे महीभृताम् // 370 // 1. रामकथा-आरंभः /