________________ 156 / महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीपद्म दशग्रीवः स सुग्रीवरक्षायै वरुणं शरैः / जर्जराङ्ग विहस्तं च विदधे ध्वस्तपौरुषम् // 338 // वारणं वरुणस्यैवाऽधिरुह्य छलतस्त्वमुम् / बवा स्वशिबिरं निन्ये जज्ञे जयजयारवः / 339 / वशीकृत्य पाशिनं स स्वीकृत्योपायनं ततः / तं तत्रैव व्यवस्थाप्य लङ्कां लङ्काविभुर्ययौ // 340 // हनूमते सत्यवतीं वरुणोऽदान्निजाङ्गजाम् / दशास्यः स्वस्वसुः पुत्रीमनङ्गकुसुमाभिधाम् / 341 / इतश्च मिथिलापुर्या हरिवंशे महीधनः / ___ अभूद् वासबकेत्वाह्वः प्रियाऽस्य विपुलाऽभिधा // 342 // तयोः पुत्रो विचित्रश्रीर्जनकः कनकप्रभः / तदैव कौशलापुर्या राज्यतः प्रथमार्हतः / 343 / सूर्यवंश्येषु भूपेषु व्यतीतेषु बहुष्वपि / गतेषु मोक्षं स्वर्ग वा संख्यातीतेष्वनुक्रमात् / 344 / सुव्रतस्याऽर्हतस्तीर्थे वर्तमाने जयालयः / विजयो नृपतिः कान्ता हिमचूलानुकूलगीः // 345 // तयोः सुतौ श्रुतौ भूम्यां वज्रबाहुपुरन्दरौ / तदानीं नागनगरे रेजे राजेभवाहनः // 346 // चूडामणिः प्रिया तस्य सुताऽनयोमनोरमा / वज्रबाहुः पर्यणैषीत् तां यौवनवती क्रमात् // 347 // प्रत्यावृत्त्य व्रजन्नागपुरे मार्गे समैक्षत / मुनिं दृष्ट्वा श्यालहासाजगृहे तैः संह व्रतम् / 348 / मनोरमा स्त्री श्यालः श्रीउदयोऽन्यः कुमारकैः / सहादाय व्रतं तेपुर्विजहे गुणसागरः // 349 // विजयोऽपि नृपः श्रुत्वा राज्ये न्यस्य पुरन्दरम् / निर्वाणमोहशिष्योऽभूद् वैराग्यात् सुगतिं ययौ // 350 // पुरन्दरोऽपि स्वसुतं पृथिवीकुक्षिसम्भवम् / नाम्ना कीर्तिधरं राज्ये न्यस्य क्षेमंकराद् व्रती // 351 // अथ कीर्तिधरस्याऽपि तनयोऽभूत् सुकोशलः / __सहदेवी तेन समं व्रतं जग्राह वार्द्धके // 352 // सहदेव्यपि नि/डार्तध्यानेन निपीडिता / मृत्वा व्याघ्रीरूपमापद् गिरौ तत्रेयतुर्मुनी / 353 / व्याघ्री दधावे तौ हन्तुं कायोत्सर्गेण तौ स्थितौ / सुकोशलं नखघातैर्दारयामास खादितुम् // 354 //