________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् वने वा भवने स्वस्याऽवनेर्देशे विलोकयन् / ___ कान्तानवाप्तौ लोकान्तान्नेतुं चित्तमधत्त सः // 322 // वियोगाद् भूतवद् भूतवनं प्राप भ्रमन् भ्रमी / चितां विविक्षुचलनं ज्वालयामास बालधीः // 323 // पित्रा पुत्रस्नुषाशुद्भयै प्रल्हादेन पदे पदे / प्रेषिताः पुरुषाः किन्तु शुद्धिं नापुः पुरस्सराः // 324 // क्रमाद् वह्निप्रवेशस्य प्रतिज्ञां शुश्रुवान् जनात् / __ प्रतिसूर्योऽञ्जनापुत्रौ गृहीत्वा तद्वनेऽगमत् // 325 // तत्र प्रल्हादभूपस्य प्रल्हादं प्रतिसूर्यकः / उत्पादयाभास पवनञ्जयादिस्वजनेष्वपि // 326 // भावयन् स धनुर्वेदं साङ्ग सांगत्यवान् बुधैः / ' वयः प्राप कृतोल्लासं पितुः सवयसामपि // 327 // उपस्थिते पुनयुद्धे सन्धेविघटनान्मिथः / वरुणो वारुणेयाश्च भृशं युयुधिरे परैः // 328 // राक्षसेशदूताहूताः प्रतिदेशं नृपा बलैः / प्रतस्थिरे रणौत्सुक्याद् रावणस्यानुशासनात् / 329 / पवनप्रतिसूयौं तौ तत्कार्याय धृतोद्यमौ / " निषिध्य हनुमान् धैर्यात् सानुमानिव निर्भयः / 330 / सबलश्वाऽचलल्लोकैः कृतप्रस्थानमङ्गलः / कतिचिदिवसैरागाद् रागानेमे दशाननम् // 331 // .मिलिते. कटके तैस्तैरक्षोभिर्भूधनैर्धनैः / वानरेशैः समं रक्षःपतिमभ्यर्णमागतम् // 332 // श्रुत्वा वारुणयः पुर्या निर्ययुः शतमञ्जसा / रजसाच्छादयन्तोऽभ्रं वरुणोऽप्यन्वगाच्च तान् // 333 // युग्मं // रणोत्कटैर्भयुद्धे क्रियमाणेऽसृजो वहाः / स्वस्वामिनः प्रतापस्य स्वरूपमाचचक्षिरे // 334 // युध्यमानान् वारुणींस्तान् बबन्ध विद्यया रयात् / . हनुमान् मानिनां मुख्यः ख्यातिश्चाऽभूद् बलेऽखिले // 335 // अरुणाक्षो दधावेऽस्य वधाय वरुणः क्रुधा / तं चारुणद् वानरेन्द्रः सान्द्रीकृतशरबजैः // 336 // सिन्धुरस्थस्तद्विनाशे वरुणः करुणां विना / चालयन् करवालं स्वं सुग्रीवाभ्यर्णमीयिवान् // 337 //