________________ 154 ] महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीपद्म पप्रच्छ गणकं सार्थऽभ्यागतं रागयोगतः / जन्मनः समयः कीदृक् स प्राहात्युत्तमः क्षणः // 310 // तिथिश्चैत्रस्य बहुलाऽष्टमी भं श्रवणं रवेः / वासरोऽयं ततः सूर्यो मेषस्थस्तुगतां गतः / 311 // मृगाङ्कस्तु मृगाङ्कस्थो मध्यं भवनमाश्रितः / वृषे मङ्गलसञ्चारो मीने चरति चन्द्रजः / 312 / कर्के गुरु दैत्यगुरुमीने तत्रैव सूर्यजः / मीनलग्नोदये ब्रह्मयोगे जन्मातिसुन्दरम् // 313 // . अथाञ्जनां समादाय ससखीं तनयान्विताम् / विमानान्तनिवेश्याऽगात् प्रतिसूर्यः पुरं निजम् // 314 // मातुरङ्कात् कृतोत्फालो बालः प्रालम्बलिप्सया / पपात शैले तद्घाताद् गिरिः स कणशोऽभवत् // 315 // प्रतिसूर्योऽक्षताङ्गं तं धृत्वा मात्र समर्पयत् / महोत्सहनुपुरं प्रावेशयन्महाशयः // 316 // जातमात्रो हनुरुहे पुरे यस्मादुपागतः / मातुलो हनुमान नामादधेऽस्य विशदाशयः / 37 / चूर्णितोऽनेन शैलोऽपि श्रीशैलस्तत्पराख्यया / ववृधे स्वजनांस्तुष्यन् पुष्यन्नवनवाः कलाः // 318 // सन्धि विधाय पवनो मोचयन् खरदूषणौ / कारास्थितौ वरुणस्य तोषयामास रावणम् / 319 / आगत्य स्वपुरे पित्रोः पादावानम्य रम्यधीः / अञ्जनावासमागच्छत् तत्र तां नैक्षतोत्सुकः // 320 // निशम्य प्राग्भवं वृत्तं तां दिदृक्षुः स भिक्षुवत् / / स्थाने स्थाने परिभ्राम्यन् शुशोचाऽम्बुजलोचनाम् // 321 // 1. श्रीहनुमतो जन्मपत्रम् // सू.१ / 2 11 MAR/