________________ 152 ] महोपाध्यायश्रीमन्मेघविजयविरचितम [ श्रीपद्म क्रन्दन्ती वेपमानाङ्गी तटस्थां वीक्ष्य मारुतः / तां कान्तां स्मृतिमानिन्ये राजसूर्विजनेऽजनाम् // 279 // ततः स पुनरावृत्त्य सह प्रहसितेन च / गत्वाऽञ्जनापदे द्वारि स्थित्वा मित्रं पुरोऽमुचत् // 280 // निर्जले शफरीवासौ वासौकसि सुदुःखिता / सती निःश्वसती दृष्टाऽनेनाऽऽकृष्टोऽथ राजसूः // 281 / / निर्दोषां स कलामिन्दोरिवाऽऽलोक्य प्रमोदभाक् / रेमे तया समं गर्भ बभार सा बलाढतोः // 282 / / भीता विनीताञ्जनाऽपि जनापवादशङ्किता / पतिं ययाचे सङ्केतकेतनं चागुलीयकम् / 283 / गतो यथागतं स्थानं पवनः स वनस्थले / __ प्रातरुत्थाय चलितः केनाऽप्याऽऽकलितो न सः // 284 // अन्तर्वत्नी पुत्रपत्नी श्वसुरौ त्रपयातुरौ / रहोऽङ्गुलीयकप्रेक्षायोगान्नैव प्रतीयतुः // 285 // प्रेषणीया पितुर्गेहे इत्यादिश्य स्वसेवकान् / यानारोहात् प्रेषतुस्ता वसन्ततिलकामपि / 286 / श्रुत्वाऽञ्जनां तथावस्थां पितरौ चिन्तयातुरौ / प्रसन्नकीर्तिः कुमारोऽवोचच्छोचयतः कथम् // 287 // नाऽस्या अत्रोचितं स्थानं निर्वास्या दूरतोऽप्यसौ / इत्युक्ता क्षुधिता श्रान्ताऽञ्जनाऽगाद् विजने वने // 288 // तत्राऽपश्यच्चारणर्षि नत्वा तं निषसाद सा / धर्मलाभं वदन्नेष कायोत्सर्ग विमुक्तवान् / 289 / वसन्ततिलकाऽपृच्छत् तं मुनि दुःखकारणम् / स चाऽवोचत् भारतेऽस्मिन् मन्दरे नगरे पुरा // 290 // प्रियनन्दी वणिग्जज्ञे तस्य नारी जयाह्वया / दमयन्तः सुखी प्राज्ञः श्रेष्ठश्च तनयोऽनयोः // 291 // धर्म प्राप्य मुनेः सम्यगाराध्याबाध्यधीस्ततः / ___ मृत्वा द्वितीयकल्पेऽभूद्देवो देवार्चनापरः // 292 / / च्युत्वा मृगाङ्कनगरे हरिचन्द्रमहीशितुः / / प्रियगुलक्ष्म्यां तनयस्सिहचन्द्रः प्रसिद्धिभाक् / / 293 / /