________________ चरितम् ] लघुत्रिर्षाष्टशलाकापुरुषचरितम् [ 151 एका सखी प्राह वरः पित्रा सख्याश्च मृग्यते / ___ विद्युत्प्रभः पराऽप्यूचे मोक्षगामी स चाचिरात् // 267 // तद्वचोरङ्गभङ्गाय प्रथमोचे वरं सखि ! / अमृतं स्तोकमप्यात्तं विषभारो महानपि // 268 // अनयोरनयोपेतं वादं श्रुत्वा विषादवान् / ___ अहं नाऽस्याः प्रियोऽहंस्या नैते याऽऽल्यौ निषेधति // 269 // विरक्तस्त्यक्तसत्स्नेहो जिघांसुं पवनञ्जयम् / _निवार्याऽनार्यकार्यात तं निन्ये प्रहसितः पुरम् // 270 // पित्रादेशाद् विवाह्येतां तत्याज राजसू रुषा / पुरुषाः परुषाः स्वीयहठे कुण्ठधियो यतः // 271 // निशस्य पुत्र्यास्तदुःखं महेन्द्रो जनकस्तथा / अनङ्गसुंदरी माताऽऽमनस्यं च मनस्यधात् // 272 // रावणामन्त्रणे प्राप्ते प्रल्हादे चलनोत्सुके / निषिध्य तातं पवनो निर्ययौ नगरान्महैः // 273 / / पति दिदृक्षुः स्वगृहादञ्जनाऽप्यञ्जनानना / पाश्चालिकेव क्वाऽप्यस्थाद् दुःस्था चन्द्रकलाकृशा // 274 // हीना दीना मलीनाङ्गी रुदन्ती व्यञ्जनेक्षणा / - कान्तं गृहाद् विनिर्यान्तं ननाम पादयोः पुरः // 275 / / अञ्जना प्राञ्जलीभूय भूयो विनयतोऽब्रवीत् / त्वया संभाषितः सर्वोऽप्यहं तु न मनागपि // 276 // नाथ ! विज्ञप्यसे नाऽहं विस्मार्या सहचारिणी / पुनरागमनेनाशु पन्थानः सन्तु ते शिवाः // 277 // शृण्वन्नेवं सरस्तीरे विश्रान्तः पवनञ्जयः / पटालये ददशैंका चक्रवाक्री वियोगिनीम् // 278 // 1. अहंस्या न हंसीरूपा, तस्याः / 2. या अञ्जना एते द्वे आल्यौ सख्यौ न निषेधति / 3. आमनस्यं प्रकामदुःखम् /