________________ 150 ] महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीपद्म आनन्दमाली दीक्षित्वा तपस्वी विहरन् भुवि / रथावतं ययौ तीर्थ तं ददर्श तङित्प्रभः // 253 // कायोत्सर्गे निबद्धयेनं ताडनां विदधेऽधमः / न कोऽपि कोपस्तस्याऽऽसीदुदासीनस्य संसृतेः // 254 // तद्धाता प्रेक्ष्य तद्रूपं तेजोलेश्यां मुमोच सः / __ कल्याणनामा श्रमणो दुर्द्धरामसुरैः सुरैः // 255 // सत्यश्रीभक्तिवचनैः तडित्प्रभस्य कामिनी / क्षामयामास सर्वागः' सर्वाङ्गविनयाशया // 256 // भ्रान्त्वा भवान् भवान् किश्चिदाचचार तपःक्रियाम् / तत्प्रभावात् सहस्रारसुतोऽजनि जनेश्वरः // 257 // ऋषेधिनतः पापं यज्जातं तत्फलं त्वया / अभोजि मा ततः कार्षीमहर्षीणामुपद्रवम् / 258 / श्रुत्वा पूर्वभवं स्वीयं दन्तवीर्याय सूनवे / राज्यं दत्त्वा व्रतं लात्वा तपस्तप्त्वा ययौ शिवम् // 259 // दशग्रीवोऽनन्तवीर्य प्राप्तकेवलमानतः / स्वर्णतुङ्गगिरौ तस्य श्रुत्वा वाणी जहर्ष च / 260 / : कुतो मे मरणं भावि पृष्टश्चेति मुनिर्जगौ / पारदारिकदोषेण वासुदेवान्मृतिस्तव // 261 // अनिच्छन्तीं परवधू रमयिष्याम्यतः परम् / नेत्यभिग्रहमादत्त रावणो राज्यमन्वशात् // 262 // इतश्च वैताढयगिरौ नाम्नादित्यपुरेऽभवत् / प्रल्हादो नृपतिः केतुमती तस्याऽङ्गनाऽग्रिमा // 263 // पुत्रोऽनयोनये रक्तः पवनञ्जय इत्यभूत् / __ तस्मै दितिपुरः स्वामी महेन्द्रोऽदत्त कन्यकाम् // 264 // अजातेऽपि विवाहेऽस्या रूपसंपनिरीक्षणे / लात्वा प्रहसितं मित्रं पवनोऽगाद् दितेः पुरे / / 265 / / वार्ता कुर्वन् मिथः स्वैरं सखीयुग्मं रहःस्थितः / अञ्जनायाश्चारवृत्त्या शुश्राव पवनञ्जयः // 266 // 1. सर्वम् आगः अपराधः /