________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् [ 149 ऐरावणंस्थौ क्रोधात्तौँ योधानां रणवारणात् / अढौकेतां मिथः केतावनगेऽव्यग्रमानसौ // 237 // चन्द्राकौं हरितः सर्वाश्छादयाँचक्रिरे निजम् / सैन्ययोरुभयोः धावत्तुरङ्गोत्थितरेणुना // 238 // अन्योन्यास्त्रविभेदेन मन्त्रविद्यानिबन्धनात् / द्वावप्यजेयौ देवानां भयहेतू बभूवतुः / 239 / कुर्वतोः करिणोर्दन्तादन्ति युद्धं तदोत्थितः / ___ज्वलनः प्रज्वलँश्चक्रे चक्रे तिमिरनाशनम् // 240 // पुण्यानुगुण्यादिन्द्रेभं समारुह्य दशाननः / ___ बबन्ध शक्रं तच्चक्रं शिथिलं रणतोऽभवत् // 241 // जितकाशी दशग्रीवो लङ्कायां पुनराययौ / शक्रं चिक्षेप कारायां सहस्रारस्तमन्वगात् / 242 / पुत्रभिक्षां देहि राजन् ! त्वजिता न त्रपामहे / __ लीलयाऽष्टापदं शैलमुदधार्षीमहाभुजः // 243 / / रावणोऽप्याह शक्रश्चेत् स दिक्पालः क्षणे क्षणे / प्रमार्जनां यद्यभितः कुर्याल्लङ्कां सुनिर्मलाम् // 244 // प्रतिप्रभातमम्भोदैर्गन्धवारि प्रवर्षति / चेलोत्क्षेपं पुरीमेतां परितः कुरुतेऽन्वहम् // 245 // मालीव पुष्पाण्याभीयालङ्कारयति मालया / हट्टान् घट्टान् गृहादीनि स्थानान्यास्थानकानि च // 246 // सर्वकर्माङ्गीचकार सहस्रारोऽविकारधीः / सहस्राक्षाय राज्यं च प्रत्यदात् स दशाननः // 247 // रथनू पुरमागत्य निर्वाणसङ्गमं मुनिम् / पप्रच्छ कर्मणा केन मय्येषाऽभूद् विडम्बना // 248 // अरिंजयपुरे पूर्व विद्याधरशिरोमणिः / नाम्ना ज्वलनसिंहोऽभूत् तत्कान्ता वेगवत्यपि // 249 // तयोरहल्या दुहिता रम्भादम्भा स्वरूपतः / तस्याः स्वयंवरेऽभ्यागाच्चन्द्रावतपुरप्रभुः / 250 / आनन्दमाली तत्साई सूर्यावर्तपुरेशिता / ___ तडित्प्रभोऽपि चायासीत् मैत्र्यवैचित्र्ययोगतः // 251 // आनन्दमाली वत्रेऽथाऽहल्यया धृतमाल्यया / तडित्प्रभस्तदेालुातवाँस्तं निजं रिपुम् // 252 //