________________ चरितम् / लघुत्रिषष्टिशलाकापुरुषचरितम् [ 145 इति 'प्रसिद्धथा सिद्धमानी एकदा वादसादरैः / अजैर्यष्टव्यमित्यस्याः पृष्टोऽप्यर्थ स भूपतिः // 179 // गुरुवद्ध्वा दुरध्वानं जानन्नप्यनुरोधतः / मैषैरिति मृषा भाषाबलान्नरकगाम्यभूत् // 180 // अजास्त्रिवर्षशालीनां कणाः शुद्धवचस्त्विति / पर्वतः सर्वतो लोकमपवादं समाप्तवान् // 181 // महिषानीकनाथेन कालासुरेण स क्रमात / अधिष्ठितश्चमरेन्द्रसेवकेन महौजसा // 182 // कालासुरः कोऽयमिति रावणपृच्छया जगौ / नारदो देवनगरं पुराऽभूच्चारणाह्वयम् / 183 / अयोधनो भूधनोऽस्मिन् दितिः कान्ता तयोः सुता / सुलसाऽनलसा शीललीलायां सा वयस्यपि // 184 // तस्याः स्वयंवरे राज्ञः स्वसा सव्ययशास्तदा / - तृणबिन्दोः प्रिया पुत्रस्तयोश्च मधुपिङ्गलः // 185 // तमेव वृणुया मात्रा शिक्षिता सुलसा त्विति / ... . मधुपिङ्गलराजोऽपि तन्मत्वाऽमूमुदत्तराम् // 186 // सगरो नृपतिस्तस्याऽपलक्षणतनुस्थितिम् / * स्वयंवरान्तर्वाच्यमानां तां जगौ सुलसापुरः // 187 // व्यरांक्षीन् मधुपिङ्गाख्यात् सा वत्रे सगरं नृपम् / मधुस्तदपमानेन चक्रे वालतपो महत् // 188 // मृत्वा षष्टिसहस्रशो महाकालोऽसुरोऽभवत् / दृष्ट्वा शुक्तिमतीनद्यां पर्वतं मुमुदेऽसुरः / 189 / तमभ्यधाद् विप्रवेषः शाण्डिल्यस्त्वत्पितुः सुहृत् / / धीमतो गौतमाख्यस्य शिष्यः पित्रा सहाऽपठत् // 190 // नारदेन जनैश्च त्वां श्रुत्वा धर्षितमागमम् / / त्वत्पदं पूरयिष्यामि मन्त्रैविश्वं विमोहयन् // 191 // 1. अत्र पूवाधे रचनाशैथिल्यं प्रतिभाति, मूलादर्शे यथाप्राप्तं तथैवात्र वर्तते / संपा० ल. त्रि. 19