________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् [143 स्वल्पायुः साहसगतिरिति ज्ञानिगिरा मृशन् / सुग्रीवेण समं तस्या विवाहं ज्वलनोऽतनोत् // 148 // सुग्रीवस्याङ्गजौ तस्यामजायेतामतोऽङ्गदः / प्रथमोऽन्यो जयानन्दो भुजाविव महीभुजः // 149 // विद्यां साधयितुं लग्नः स साहसगतिः खगः / दशास्यो दश दिग्देशान् वशीकर्तुं विनिर्ययौ // 150 // समीपद्वीपभूनाथान् साधयन् बाधयन् रिपून् / ___पाताललङ्कामायासीत् खरेण बहुधाऽचिंतः // 151 // किष्किन्धायाश्च सुग्रीवोऽप्युपतस्थे समं बलैः / चतुर्दशसहस्री चाऽमिलद् विद्याभृतां तदा // 152 // मार्गे रेवातटस्थाने स्कन्धावारनिवेशने / अर्हत्पूजां दशास्येन रचितां वेण्यपाकरोत् // 153 // जलप्रवाहः केनाऽयं मुक्तः प्रत्यर्थिना मम / . इति क्रुद्धदशास्योक्त्या तस्मै विद्याधरोऽप्यवक् // 154 // माहिष्मती पुरी तस्यां सहस्रांशुर्महीपतिः / करोति पयसो रोधं जलक्रीडाविधित्सया // 155 // तेन मुक्तः पयःपूरः साम्प्रतं विदधे प्लवम् / * तन्मत्वा रावणोऽप्रैषीन्निग्रहायाऽस्य सेवकान् // 156 // अन्योन्यं रणसम्भारे दशास्यश्छलतः क्षणात् / - सहस्रांशुं निजग्राह मायामयास्त्रविद्यया // 157 // शतबाहुमुनिस्तत्र सहस्रांशोः पिताऽप्यगात् / चारणश्रमणस्तं च प्रणनाम दशाननः // 158 // सिंहासनात् समुत्थाय पञ्चाभिगमतत्परः / : तत्पुरो भुवि चासीनः प्राञ्जलिः स नमच्छिराः // 159 // धर्मलाभाशिषं दत्त्वा निविष्टो रावणेन च / पृष्टस्तत्रागतेहेतुं प्राहैतनगरे नृपः // 160 // पुराऽहं सूनुरप्येष सहस्रांशुममाऽक्षमः / इत्युक्तिमात्रादमुचत् सहस्रांशुं विनीतगीः // 161 // दीक्षां निजपितुः पार्श्वे सहस्रांशुः समाददे / दशास्याय सुतं दत्त्वाऽऽधिपत्यप्रतिपत्तये // 162 / /