________________ चरितम् लघुत्रिषष्टिशलाकापुरुषचरितम् [141 उक्त्वेति वालिना दूतो विसृष्टस्तद्गिरा भृशम् / ___ क्रुद्धो दशाननोऽभ्यागात् कृत्वा सैन्यमदैन्यधीः // 120 // युद्धं गदागदि पुनमामि नगानगि। अभूत् कटकयोस्तीनं भिथः कण्टकसङ्कटम् / 121 // वालीऽप्यालीढदर्पस्मन् बभाषे रावणं पुनः / संग्रहारेऽङ्गिसंहारे किमोजः स्यान्महौजसाम् / 122 / विधेयः प्रौढवीर्येण विजयः स्वभुजौजसा / आलापादनयोरेवं रणः प्रववृते महान् // 123 // प्रायुक्त यद् यदस्त्रं सः वाली चिच्छेद तच्छरैः / रावणो वारुणादीनि मन्त्रास्त्राणि प्रयुक्तवान् // 124 // वाली न्यवारयत् तानि ताक्थैर्लीलया बली / / ततः कर्षन् चंद्रहासं दधावे रक्षसां पतिः // 125 // स चन्द्रहासं तं हस्ते धृत्वाहि मिव पक्षिराट् / - उड्डीय वाद्धयंतर्भुवि वाली बभ्राम निःश्रमः // 126 // तं त्यक्त्वा भुवि येन त्वं मदेनाऽसि विडम्बितः / . तमेव जेतुं दुःखानां हेतुमत्रोपचक्रमे // 127 // पूर्वजास्ते तथा मे ये तेषां स्नेहं मिथः स्मरन् / ___ अमुञ्चं त्वामतो याहि राज्यं भुक्ष्व दशानन // 128 // इत्यादिश्य दशास्यं तं कृत्वा सुग्रीवमीश्वरम् / वाली गगनचन्द्रषिपादमूले व्रतं ललौ // 129 // लब्धीनामब्धिरभवद् वाली सोऽष्टापदाचले / नत्वा चतुर्विंश जिनान् कायोत्सर्ग गृहीतवान् // 130 // कायोत्सर्ग च मासान्ते पारणां च पुनः पुनः / कुर्वत्रस्थान्मुनिर्वाली गीर्वाणालीनतक्रमः // 131 // दशग्रीवाय सुग्रीवः प्रायच्छत् श्रीप्रभा सुताम् / यौवराज्ये वालिपुत्रं चन्द्ररश्मि न्यवीविशत् // 132 // क्वचित् छलाबलात् क्वाऽपि रावणः खेचराङ्गजाः। . . परिणीय यथाकामं विषयान् बुभुजे चिरम् // 133 // रत्नावलीविवाहाय नित्यालोकपुरे व्रजन् / अष्टापदाद्रौ स्खलिते पुष्पकेऽमंस्त रावणः // 134 //