________________ 136 ] . महोपाध्यायश्रीमन्मेघविजयविरचितम् . [ श्रीपद्म रोषादशनिवेगोऽपि चिच्छेदान्धकमस्तकम् / भग्ने वानरसैन्येऽथ नेशुः सान्तःपुराः भटाः // 41 // नृपौ सुकेशकिष्किन्धी स्वपुरान्निर्गतौच्छलात् / पाताललङ्कामाश्रित्य तस्थतुः स्वजनैः समम् // 42 // लङ्काधिपत्ये निर्घात खेचरं न्यस्य सोऽशनिः / जितकाशी रिपुत्रासी समागाद् रथनूपुरे // 43 // वार्द्धक्येऽशनिवेगोऽपि सहस्रारं न्यवीविशत् / राज्ये तदुक्त्योपादत्त श्रामण्यं पुण्यधीस्तदा // 44 // माली सुमाली तदनु माल्यवानात्मजास्त्रयः / सुकेशस्य प्रियेन्द्राण्यां बभूवुः शक्रविक्रमाः // 45 // किष्किन्धेरपि पुत्रौ द्वौ श्रीमालायां बभूवतुः / नाम्नादित्यरजा ऋक्षरजा इति बलोत्कटौ // 46 // किष्किन्धिः शाश्वत जिनयात्रायै मन्दरे गतः / मधुपर्वतमद्राक्षीनिवृत्तः पथि सुन्दरम् // 47 // तत्रैव नगरं न्यस्य निर्भयस्थानमामृशन् / __ स्थिताः पुत्रास्त्रयस्तत्र सुकेशस्य मदोद्धताः // 48 // लङ्कायामेत्य निर्घातं निहत्य रणकर्मणा। मालीराजाभवल्लङ्कामुख्यद्वीपेषु शासिता // 49 // पुत्रस्याऽशनिवेगस्य सहस्रारस्य कामिनी / सुलक्षणा सर्वगुणैः सम्पूर्णा चित्रसुन्दरी // 50 // कोऽपि देवोऽत्र सौधर्मात् तस्याः कुक्षाववातरत् / दोहदोऽप्यभवत् शकसम्भोगलक्षणस्तदा // 51 // राज्ञा शक्रस्वरूपेण दोहदोऽपूरि भोगतः / ___ समये जन्म तस्याऽऽसीदिन्द्रनामादधे पिता // 52 // तारुण्ये चतुरो न्यास्थदिक्पालान् सप्तसैन्यपान् / द्विषमैरावणं यानं बलं हस्ते समादधौ // 53 // इत्यादि शकसाम्राज्यं कुर्वाणः खेचरेश्वरः / __माली न सेहे तद्भूति वैताढयेऽगाद् रणाशया // 54 // परस्परं गाढयुद्धे जायमाने च मालिनम् / इन्द्रो जघान वज्रेण नेशुर्वानरसैनिकाः // 55 //