________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् [ 135 श्रीचन्द्रायास्तन्महिष्या विलिलेख नखैः कुचौ / तडित्केशस्तं जघान बाणेन प्राणहारिणा // 26 // युग्मं जर्जराङ्गः शराघातात् पपाताऽयं मुनेः पुरः। तद्दत्ताच्च नमस्कारादभूदब्धिकुमारकः // 27 // अन्यानपि तडित्केशभटैनिहतवानरान् / दृष्ट्वा क्रुधा लोष्टखण्डैरुपदुद्राव राक्षसान् // 28 // तेनोपयाचितशतैः प्रसाद्य सुरमुच्चकैः / तडित्केशो मुनिं प्राप्य पप्रच्छ वैरकारणम् // 29 // दत्तो नाम मन्त्रिसुतः श्रावस्त्यां त्वं सुरोऽप्ययम् / काश्यां लुब्धक एवाऽभून्मुनित्वं त्वमुपात्तवान् // 30 // पथि दृष्टो मुनिस्तेनाऽशकुनोऽयमिति क्रुधा / ___ मारितः स्वरगात्तुर्य च्युत्वाऽस्मात् त्वमभूर्नृपः // 31 // कपिरेषो लुब्धकस्तु तद्वैरमभवद् द्वयोः / तं प्रणम्य क्षामयित्वा मिथः स्वस्थानमीयतुः // 32 // तडित्केशः सुकेशं स्वं न्यस्य राज्येऽभवन्मुनिः / ... कृत्वा तपःसिद्धिमगात् तथैवाऽभूद् घनोदधिः // 33 // राज्यं शशास किष्किन्धिर्घनोदधिसुतस्ततः / इतश्चाशनिवेगोऽभूद् वैताढथे रथनू पुरे // 34 // तत्पुत्रस्त्रासिताऽमित्रः श्रीमान् विजयसिंहकः / विद्युद्वेगो द्वितीयस्तु तेजसा यशसाऽग्रिमः // 35 // आदित्यनगरे तस्मिन् वैताढये खेचराग्रणीः / नाम्ना मंदिरमालीति श्रीमालाख्या तदात्मजा // 36 // स्वयंवरे स किष्किन्धिस्तया वत्रे मनोहरः / __न सेहे विजयसिंहः सिंहवद् गर्जितं सृजन् // 37 // सुकेशः पक्षे किष्किन्धेः परे विजयसिंहतः / अन्योन्यं दारुणं युद्धं चक्रुर्नानायुधाः क्रुधा // 38 // किष्किन्धेरनुजो युध्यन्नन्धकः स्कन्धबन्धुरः / शिरो विजयसिंहस्य विहस्येवासिनाऽलुनात् // 39 // श्रीमाला तां विशालाक्षीं लात्वा किष्किन्धिराययौ / - स्वां पुरीं तदवेत्याशु तपिता द्राग बभंज ताम् // 40 //