________________ 134 ] महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीपद्म वैताढयेऽतीन्द्रनामाऽऽसीत् तदा मेघपुराऽधिपः / श्रीमत्यां तत्सुतो नाम्ना श्रीकण्ठो देविकात्मजा // 9 // देव्याख्यां कीर्तिधवलराजाय दत्तवान् पिता / पुष्पोत्तरेणाऽर्थ्यमानां पुत्रार्थ रोषमाप सः // 10 // पुष्पोत्तरस्य दुहिता पद्माख्या रागिणी स्वतः / श्रीकण्ठस्तां तु नभसाऽपहत्याऽगानगान्तरे // 11 // पुष्पोत्तराद् रक्षितुं तामशक्तस्त्यक्तभूधरः / बलिनं शरणं कीर्तिधवलं त्रैमतोऽश्रयत् // 12 // पद्मया बोधितो लेखप्रेषणेन पितर्मया / नाऽमुनाऽपहताऽस्मीति मनोलग्ने ममाऽमुना // 13 // श्रीकण्ठं कीर्तिधवलं प्राह वैताठ्यपर्वते / मायाऽऽसीद् द्विषतां रोषात् तिष्ठात्रैव ममान्तिके // 14 // अस्यैव राक्षसद्वीपस्याऽदूरेण मरुद्दिशि / विद्यते वानरद्वीपो योजनत्रिशतीमितः // 15 // समुद्रान्तः परे सन्ति द्वीपाः श्रीसिंहलादयः / / ___ मदाज्ञायां राजधानी कृत्वा स्वैरं सुखी भव // 16 // सौहार्दात् कीर्तिधवलः श्रीकण्ठं बहुधाग्रहात् / तत्रैव वानरद्वीपे समीपस्थे न्यवासयत् // 17 // पर्वतो वानरद्वीपे किष्किन्धोऽस्मिन् महापुरीम् / किष्किन्धां नाम संवास्य तद्राज्ये तं न्यवीविशत् // 18 // वानरानन्नपानाद्यैः पुपोष घोषणां व्यधात् / न हिंस्या वानरा द्वीपाख्यातस्याऽत्र प्रतीतये // 19 // यत्र तत्र ध्वजच्छत्रवस्त्रादिषु जनास्ततः / कपीनामाकृतिं चक्रुः तत्रस्थाः खेचरा अपि // 20 // प्रापुर्वानररूढिं ते श्रीकण्ठो वज्रकण्ठसूः / / .. नन्दीश्वरेऽन्यदा यातुं श्रीकण्ठोऽन्वचलत् सुरान् // 21 // विमाने स्खलिते तस्य मानुषोत्तरपर्वते / अहं हा बहुलाहास्तनिर्वेदात् प्राव्रजत् तदा // 22 // घातिकर्मक्षयं कृत्वा श्रीकण्ठः सिद्धिगाम्यभूत् / तद्वंशेऽनेकभूपेषु ब्यतीतेषु क्रमादभूत // 23 // मुनिसुव्रततीर्थे च घनोदधिरथो नृपः / तडित्केशस्तु लङ्कायां पुरावत् प्रीतिरेतयोः // 24 // एकदा च तडित्केशे क्रीडितुं नन्दने वने / गते कोऽपि कपिवृक्षादुत्तीर्य वीर्यचापलात् // 25 //