________________ 130 ] महोपाध्यायश्रीमन्मेघविजयविरचितम् [श्रीमहापद्मचक्रवर्ति समयेऽस्मिन्नुज्जयिन्यां श्रीवर्माऽजनि भूपतिः / पुरोहितोऽस्य नमुचिविद्यया गर्वपर्वतः // 8 // आचार्याः सुव्रता ईयुस्तस्यां तेषां नमस्यया / स्वपावनाशया लोका गमागमौ वितेनिरे // 9 // तद्विज्ञाय गते राज्ञि नत्वाऽऽचार्यान् पुरःस्थिते / __मत्सरी नमुचिः प्रोचेऽनूचाने मौनमाश्रिते // 10 // न किश्चनाकिञ्चनोऽयं वेत्ति गौरिव गौरवात् / श्रुत्वेति सूरयो यावदुत्तरं कुर्वते तदा // 11 // तावच्छिष्यो नमुचयेऽवादीद् वादीन्द्रवद् रयात् / पूर्वपक्षं कुरु गुरुर्मदस्ते भज्यते मया // 12 // सोऽप्यवोचदशौचाः स्थः त्रयीबाह्याश्च सर्वदा / न रक्ष्या मण्डले राज्ञा कौशलं वाञ्छता सता // 13 // ब्रह्मचारी शुचिनित्यमशौचं मिथुनं मतम् / ब्रह्मचर्यपरिभ्रष्टा अशौचा यूयमेव तत् // 14 // पशुक्रिया कामकेलिः कन्यादाने शुभोक्तितः / प्राधान्यमस्या युष्मासु वाच्यास्तद्वाडवा द्विजाः // 15 // मद्यमांसाशिनां यज्ञे युक्तैवाऽशुचिता भवेत् / सूना पञ्च प्रपञ्चेन येषां ते शुचयः कथम् ? // 16 // कंडनी पेषणी चुल्ली जलकुम्भः प्रमार्जनी / पञ्चसूनाधरा यूयं वेदबाह्याः कथं न हि // 17 // ब्राह्मणो ब्रह्मचर्येण यथा शिल्पेन शिल्पिकः / अन्यथा नाममात्र स्यादिन्द्रगोपककीटवत् // 18 // इत्यादियुक्त्या शास्त्रैश्च क्षुल्लकेन निराकृतः / रात्रौ मुनिविघातार्थी देव्याऽस्तंभि स्फुटासिभृत् // 19 // राज्ञोऽवज्ञाबलात् तस्माद् ययौ स हास्तिनापुरे / महापद्मो यौवराज्ये तस्मिन् मन्त्रित्वमादधे // 20 // अन्यदाऽनेन सामन्तः श्रीसिंहबलसंज्ञितः / अवशोऽपि वशीचक्रे तुष्टः पयोऽप्युवाच तम् // 21 // वरं वृणीष्व तेनाऽपि प्रत्यूचे समये मया / वरो ग्राह्यस्ततः पद्म एवमस्त्विति चाऽलपत् // 22 //