________________ 128 / महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीमुनिसुव्रतजिन भृगुकच्छपुरेऽन्येधुर्युसदीशः स पृष्टवान् / धर्म प्रपेदे कः प्राणी भगवान् न्यगदत् ततः // 51 // जितशत्रुनृपस्याऽश्वः प्राग्भवे श्रेष्ठययं पुरा / जिनधर्माभिधानेन पद्मिनीखण्डपत्तने // 52 // सुहृत् सागरदत्तोऽस्याऽशृणोत् साधुजनादिदम् / ___ कारयेच्चैत्यबिम्बानि यः स स्याद्भवपारगः // 53 // यो यादृशं सेवतेऽत्र स्वामिनं लभते भवी / __भवान्तरे हि ताद्रप्यमीलिकाऽत्र निदर्शनम् // 54 // श्रुत्वा सागरदत्तोऽपि सौवर्ण विम्बमार्हतम् / कारयित्वा महाऋद्धया साधुभिः प्रत्यतिष्ठिपत् // 55 // अनेन कारितात् पूर्व शिवायतनतो घटान् / कर्षयद्भयः स शैवेभ्यो मृतास्तत्रोपदेहिकाः // 56 // पश्यन् सागरदत्तोऽपि ध्यातवान् निर्दया अमी / शैवा न सेवामर्हन्ति शुद्धोऽर्हद्धर्म एव तत् // 57 / / दानशीलो न सम्यक्त्वी प्राणत्राणपरायणः / अप्रत्याख्यानसन्धानात जात्योऽश्वोऽभूनमहीशितुः // 58 // . प्राग्जन्मकारितजिनप्रतिमायाः प्रभावतः / धर्मोपदेशनं श्रुत्वा संबुद्धोऽयं क्षणादिह // 59 // अश्वावबोधं तत् तीर्थ पप्रथे तुरगोऽप्ययम् / . तीर्थयात्राकृताद् वैयावृत्त्याद् दिवि सुरोऽजनि // 6 // प्रभोः समागमे देवैः क्रियमाणे महोत्सवे / हस्तिनापुरवास्तव्यः प्राबाजीत् कार्तिको धनी // 61 // मासोपवासिना नाम्ना गैरिकेण तपस्विना / पराभूतः पृष्ठनिष्ठस्थालपायसभक्षणात् // 62 // अष्टोत्तरसहस्रेण वणिजां स्वोपजीविनाम् / सहैव व्रतमादाय सौधर्मेऽभूत् सुरेश्वरः // 63 // परिवेष्यानिच्छयाऽपि श्रेष्ठी निर्वेदभावतः / समं वणिक्सहस्रेण स्वाम्यन्ते प्रावजत् तदा // 64 // दैवयोगाद् गैरिकोऽपि कोऽपि योगेन वाहनम् / जज्ञे चैरावणाख्यं तज्ज्ञानेतरतपःफलात् // 65 //