________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् [ 127 निरीहो निजदेहेऽपि स्वस्मिन्नपि हि निर्ममः / समाशयश्चोपकुर्वत्यपकुर्वति वाऽनिशम् // 33 // नितान्तमीश्वरः सोढुमुपसर्गपरीषहान् / मैत्र्यादिभिर्भावनाभिनित्यं भावितमानसः // 34 // क्षमावान् विनयी दान्तः श्रद्धालुर्गुरुशासने / सत्यादिगुणसंपन्नो यतिधर्माय कल्पते // 35 // सम्यक्त्वमूलानि पश्चाणुव्रतानि गुणास्त्रयः / शिक्षापदानि चत्वारि धर्मोऽयं गृहमेधिनाम् // 36 // न्यायसम्पन्नविभवः शिष्टाचारप्रशंसकः / कुलशीलसमैः सार्धं कृतोद्वाहोऽन्यगोत्रजैः !37 / पापभीरुः प्रसिद्धं च देशाचारं समाचरन् / अवर्णवादी न क्वाऽपि राजादिषु विशेषतः // 38 // अनभिव्यक्तगुप्ते च स्थाने सुप्रातिवेशिमके / अनेकनिर्गमद्वारविवर्जितनिकेतनः // 39 // कृतसङ्गः सदाचारैर्मातापित्रोश्च पूजकः / त्यजन्नुपप्लुतं स्थानमप्रवृत्तश्च गर्हिते // 40 // व्ययमायोचितं कुर्वन् वेषं वित्तानुसारतः / :: अष्टभिर्वाग्गुणैर्युक्तः शृण्वानो धर्ममन्वहम् // 41 // * अजीर्णे भोजनत्यागी काले भोक्ता च सात्म्यतः / . अन्योऽन्याऽप्रतिबन्धेन त्रिवर्गमपि साधयन् // 42 // यथावदतिथौ साधौ दीने च प्रतिपत्तिकृत् / सदाऽनभिनिविष्टश्च पक्षपाती गुणेषु च // 43 // अदेशकालयोश्चर्या त्यजन् जानन् बलाबलम् / / व्रतस्थज्ञानवृद्धानां पूजकः पोष्यपोषकः // 44 // दीर्घदर्शी विशेषज्ञः कृतज्ञो लोकवल्लभः / सलजः सदयः सौम्यः परोपकृतिकर्मठः / / 45 / / अन्तरङ्गारिषइवर्गपरिहारपरायणः / वशीकृतेन्द्रियग्रामो गृही धर्माय कल्पते // 46 // इन्द्रादयो गणधराः अष्टादश ततोऽभवन् / यक्षोऽस्य तीर्थे वरुण स्त्रिनेत्रश्चतुराननः // 47 // बीजपूरं गदां वाणं शक्तिं करचतुष्टये / दक्षिणेऽन्यत्र पशु च धनुर्न कुलमालिके // 48 // स दधानः प्रभोानान्नरदत्ताऽस्य यक्षिणी / दक्षिणे पाणियुगले वरदात्री समालिका // 49 // वामे शूलं मातुलिङ्गं बिभ्राणा तीर्थरक्षिणी / न कोऽपि कुरुते बाधां सङ्घस्य तत्प्रभावतः // 50 //