________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् [ 125 श्रीमुनिसुव्रतजिनचरितम् / प्रतीच्येषु विदेहेषु जम्बूद्वीपविभासिषु / विजये भरते चंपा निष्कम्पा नगरी वरा // 1 // महाबाहुस्तन्महीशः सुरश्रेष्ठोऽभिधानतः / वरिष्ठधीः श्रेष्ठनिष्ठप्रतिष्ठोऽनिष्टवारकः // 2 // भवभावनया तत्त्वज्ञानानन्दनसाधुतः / व्रतीभूय तपो विंशस्थानकैश्चकृवान् स यः // 3 // कृत्वाऽर्हन्नामकं कर्मबन्धं मृत्वाऽभवत् सुरः / प्राणते प्रणताशेषत्रिदशः परमायुषा // 4 // च्युत्वा ततोऽसौ भाव्यर्हन् यत्र तद्वंशसम्भवः / कौशाम्ब्यां मूलमभवत् सुमुखो नाम भूपतिः // 5 // कामान्धेनाऽमुनाऽग्राहि गृहिणी वनमालिका / दस्युवीरकुविन्दस्य तां चिक्षेपाऽवरोधने // 6 // प्रत्यानेतुमशक्तः सन् वीरो ग्रथिलवत्पुरे / भ्रमन् दृष्टः क्षितीशेन स्थितेन वनमालया // 7 // किश्चिद् विषयमोंगेन प्रणये शिथिलीकृते / * दम्पती कार्यमात्मीयं निन्दयामासतुर्मिथः // 8 // धन्यास्ते ये नरा मोहव्यपोहाद् ब्रह्मचारिणः / कामं वामासु वामासु विरताश्चिरतापतः // 9 // एवं चिन्तयतोर्मृत्युर्जातस्तयोरथोद्भवः / हरिवर्षे मिथुनित्वे हरिणी स्त्री हरिः पुमान् // 10 // वीरजीवोऽपि सौधर्मे जातः किल्बिषिकामरः / तज्जिघांसुः पूर्ववैराद् विममर्श पुरः सुरः // 11 // एतावत्र मृत्युमाप्तौ सुरौ क्षेत्रानुभावतः / भविष्यतः सुरौ तस्मात् नेतव्यौ नरकं मया / 12 / उत्पाठ्य भरतक्षेत्रे चिक्षेपाक्षेपतः सुरः / तौ दम्पती कल्पवृक्षैः समं स मंतुकारकौ // 13 // मृते नृपे चन्द्रकीर्तिनाम्नि सन्तानवजिते / * हरिय॑स्तो जनैर्मा सभक्षणेऽभूद् विचक्षणः // 14 // तीर्थे शीतलतीर्थेशो हरिरासीन् महीपतिः / मूलं स हरिवंशस्य भूरेकछत्रिताऽमुना // 15 // तत्सुतः क्षितिपो नाम्ना पृथ्वीपतिर्यशःपृथुः / ततो महागिरिस्तस्मान्नृपो हिमगिरिर्महान् // 16 // राज्ये वसुगिरिः पुत्रः सुतो मित्रगिरिनपः / एवं क्रमादसंख्येया भूपा वंशेऽत्र जज्ञिरे // 17 //