________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् [ 123 मानसे मानसं शौचं यज्वनां नोचितं यतः / यज्ञे भावयतां हिंसां ऋतुदानान कायिकम् // 60 // तीर्थस्नानान्न पावित्र्यं तपःक्षान्त्यायनन्विते / केवलाज्जलशौचाच चेन् मत्स्यादिव्यभिचारि तत् // 61 // इत्याधुक्त्या पराभूता भूताविष्टेव मौनभाक् / ____ काम्पील्यनगरेऽभ्यगात् मानिता जितशत्रुणा // 62 // पृष्टं ममाऽवरोधात् किं क्वाऽपि दृष्टं त्वयाधिकम् / अन्तःपुरं. महीभर्तुः साऽप्याख्यत् मल्लिवर्णनम् // 63 // ततो भवान्तरस्नेहाद् दूतप्रेषणयाऽमुना / प्रार्थितः कुम्भनृपतिर्मह्यं देया त्वयाऽङ्गजा // 64 // एवं पइभिरपि क्षमापः स्वस्वस्वाम्यर्थमर्थितः / जगादानादरादेषा स्त्रीरत्नं नोचितं हि वः // 65 / / कौशल्यं शल्यवद् वाचामाचमामः प्रयात तत् / / विससर्ज समं दूतान् प्ररूप्य कृतसत्क्रियान् // 66 / / . स्वनाथक्रोधमुत्क्रोधं निन्युमन्युकरोक्तिभिः / संभूय भूयो वाहिन्या रुरुधुमिथिलां खलाः // 67 / / कुम्भः स्तंभ इवोद्विग्नः स्थिरो मृत्युमुपस्थितम् / . मन्यमानो मानसान्तदृष्टो दष्टाधरः क्रुधा // 68 // एत्य पादप्रणामार्थ पित्रे चित्रगिराऽवदत् / मल्लिस्तात समाहूय प्रत्येकं वद षड् नृपान् / 69 / तुभ्यं दास्यामि मत्पुत्री रणायोपस्थितोऽसि किम् ? / __ मम मोहनशालायां षडद्वारायां पृथक् पृथक् // 70 // बोधनीयाः समानीय रहःस्थास्तात ! ते मया / - इत्याख्याय पितुः पार्थाज्जगाम धाम सा स्वयम् // 71 // मोहगेहे पुरा ज्ञानात् कारित प्रतिमा निजा / हिरण्मयी मणिमयैर्भूषणैः सहिताऽहिता // 72 // स्वभोज्यकवलक्षेपं कारं कारं भृतान्तरा / पिहिता शिरसि छिद्रे पोनमणिजन्मना // 73 / / आहूतास्ते नृपा राज्ञा षडीयुः पृथगध्वना / कमलोद्घाटनाद् गन्धप्रबन्धो निर्ययौ ततः / 74 /