________________ 122 ] महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीमल्लिनाथ- . रूपं विलोक्य तत् पित्रा चित्रान्मजनसजने / __ आचष्ट कञ्चुकी पृष्टस्तुष्टो मल्लिनिरीक्षणात् // 44 // वसुजीवः शंखराजः काश्यां वाराणसीपुरे / ___ मिथिलायां तदा मल्लेः कुण्डलेऽभूद् विघट्टना // 45 // स्वर्णकारास्तु तत्सन्धावशक्ता भूभुजा पुरात् / निर्वासिता गताः काश्यां मल्लिरूपमवर्णयन् // 46 // तां वरीतुं कुम्भभूपमुद्दिश्य दूतमादिशत् / अदीनशत्रुर्नाम्नाऽऽसीन् महीशो हस्तिनापुरे / 47 / जीवो वैश्रवणस्याऽयं प्रजाः शास्ति महास्तिकः / तस्मिन्नवसरे मल्लेरनुजोऽचित्रयत् सभाम् // 48 // सुरलब्धवरस्तत्र चित्रकृद्रपमालिखत् / दृष्ट्वाऽङ्गुष्ठं तदा मल्लेः कुम्भमस्तदवैक्षत // 49 // रममाणः प्राणतुल्यप्रियाभिर्मल्लिदर्शनात् / लज्जमानः स्वीयधात्रीगिरा ब्रीडामपाकरोत् // 50 // कोपान्मल्लकुमारोऽपि समारोपितदूषणम् / तच्चित्रलेखकाङ्गुष्ठं छित्त्वा तं निरवासयत् / 51 / स हास्तिनपुरेऽभ्येत्य मल्लिरूपादि तुष्टुवे / . तच्चित्रपट्टाद् व्यामुह्य दूतं साकूतमादिशत् // 52 // षष्ठोऽभिचन्द्रजीवोऽपि कांपील्यनगरे सुहृत् / जितशत्रुर्नृपो जज्ञे राज्ञीसहस्रनायकः / 53 / मिथिलायां तदा पुर्या चोक्षा नाम तपस्विनी / ___ तमस्विनीव राइगेहप्रियाऽधर्म दिदेश सा // 54 // दानं शौचं मृदादिभ्योऽभ्यस्यन्ती सभ्यभावनाम् / प्राप्ताऽनाप्ताऽपि श्रीमल्लेः पुरो धर्ममचीकथत् // 55 // शौचं वाचनिकं सत्यं तन्नास्ति तव दर्शने / यदीश्वरकृतं विश्वं प्राहुः किं न पुरातनाः / 56 / आत्मदिक्कालमनसामाकाशस्याऽपि नित्यता / परमाणुषु भूम्यादेस्तैरेवाऽऽख्यायि तन्मृषा // 57 // कार्य चेदीश्वरकृतं घटायध्यक्षबाधितम् / अग्नेरनौष्ण्यवत् चौर्ये मतिश्चौरस्य चेश्वरात् // 58 // दण्डश्चौरेऽनीतिरेव यतस्तत्कारको हरः / पश्यतो हरताऽप्यत्र नेत्रवैषम्यमप्यतः // 59 //