________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् [ 121 उत्सवों दिक्कुमारीणां मेरौ शक्राभिषेचनम् / तथैव बोध्यं नामाऽपि दोहदानुगमादभूत् // 30 // कायद्रुमे पल्लववत् करौं तत्रागुलोऽमलः / तद्रसामृतमेवाऽपात् ज्ञानमूलविवक्षणात् // 31 // इतश्चाऽचलजीवोऽपि वैजयन्तात् परिच्युतः / साकेते भरते जज्ञे प्रतिबुद्धयभिधो नृपः // 32 // पद्मावत्याऽस्य प्रिययाऽभ्यर्थितो नृपतिर्ययौ / नागबिम्बस्य पूजायां सोऽपश्यत् पुष्पमुद्गरम् // 33 // पृष्टः सुबुद्धिर्भूपेन क्वाऽपीडक पुष्पमुद्गरः / स्त्रीरत्नं वा दृष्टचरं सोऽप्युवाच कृताञ्जलिः // 34 // कुम्भराजाङ्गजा मल्लिः कल्पवल्लीव सुन्दरी / पुष्पमुद्गरकस्तस्या आयुर्ग्रन्थौ स यादृशः / 35 / तादृग् नाऽन्यत्र नाकेऽपि स्त्रीरत्नं वा न तादृशम् / श्रुत्वा पूर्वभवप्रेम्णा दूतं प्रेषीत् तदिच्छया // 36 // तथा धरणजीवोऽपि च्युतः सन् वैजयन्ततः / चन्द्रच्छायोऽभवद् भूपश्चम्पायां पुरि दीप्तिमान् // 37 / / तत्रार्हन्नयनामाऽभूत् श्रावको भक्तिभाग जिने / तस्याब्धौ पोतयात्रायां सुरः सम्यक्त्वमैक्षत // 38 // उत्पातवातसंपातेऽप्यक्षुब्धं कृतसंवरम् / अर्हद्धर्मे दृढं मत्वा शक्रः श्लाघां शशंस सः // 39 // दत्त्वाऽस्मै कुण्डलद्वन्द्वे दिव्ये देवस्तिरोदधे / ' उपदीकृतमेकं तद् वणिजा कुम्भभूभुजः // 40 // वाल्लभ्यान्मल्लये पुत्र्यै पित्रा दत्तेऽथ कुण्डले। चन्द्रच्छायाय सोऽदत्त चम्पायामन्यकुण्डले // 41 // तत्राऽपि प्राग्वदाख्यानात् वर्णनान्मल्लिरूपजात् / प्राहिणोद्भूतमेतस्याः पित्रे पाणिग्रहेच्छया // 42 // पूरणोऽपि ततश्च्युत्वा श्रावस्त्यां पुरि भूपतिः / रुक्मी तस्य सुता नाम्ना धारिणी रूपसारणिः // 43 // . त्रि. 16