________________ 120 ] महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीमल्लिनाथ जिनभक्त्यादिभिः स्थाविंशत्या जिननाम च / अबध्नात् तान् समापृच्छय तदैकाकी मिषान्तरात् // 15 // पूर्वलक्षचतुरशीत्यायुष्काः सप्त ते व्रतम् / धृत्वा चतुरशीत्यब्दसहस्रीमायुषः क्षये / / 16 // विपद्यानशनेनैतेऽनुत्तरे दक्षिणाश्रिते' / देवा बभूवुः सप्ताऽपि सम्यक्त्वाद्धृतनिश्चयाः / / 17 / / इतश्चाऽत्रैव भरते मिथिलानगरी बभौ / यस्याः श्रिया जिता लङ्काऽलङ्कारं पयसां दधौ / 18 / रक्षोनिवासाद् दुर्वर्णा सुवर्ण वप्रनिश्चितम् / अधत्त चित्तखेदेन तदस्या रावणः पतिः // 19 // जनस्य नश्यद्रूपत्वं वर्ण्यतेऽस्यां किमद्भुतम् / विभीषणोऽस्या नाथत्वे स्वयं रामेण निश्चितः // 20 // युग्मम् अदम्भः कुम्भनामाऽस्याः स्वामी चामीकरप्रभः / पत्नी प्रभावती राज्ञस्तन्वां चित्तेऽन्विताह्वया // 21 // वैजयन्ताच् च्युतो जीवो महाबलतपस्विनः / फाल्गुनश्वेततुर्याहे तस्या गर्भेऽवतीर्णवान् / 22 / बन्धादबाधा स्त्रीवेदेऽन्दपञ्चदशशत्यहो / तदस्य तनयारूपं किं जातमियदन्तरे // 23 // अत्रोच्यते स्त्रीवेदोऽयं भेदो मोहस्य कर्मणः / __ अनुत्तरसुरेऽप्येष भाव्यो मुक्तोद्भवत् स्वरैः // 24 // योन्यादिव्यतो नारीवेदोदय इहोच्यते / स चौदारिकतन्वङ्गोपाङ्गजन्माऽन्य एव सः // 25 // तद्वन्धोऽनुत्तरसुरे सम्यक्त्वेऽपि न दुर्लभः / यद्वा प्रकृतिवैषम्येऽप्याश्चर्यादुत्तरं स्फुटम् / 26 / गर्भोदयेऽस्या उदभूत् तृतीये मासि दोहदः / मल्लिमाल्ये ददशॆषा स्वप्नांश्चतुर्दशाऽपि च // 27 // पूर्णे काले मार्गशुक्लैकादश्यां भेऽश्वयुज्यथ / प्राग्जन्ममायासहितस्त्रीकर्मत्वेन कन्यकाम् // 28 // एकोनविंशमहन्तं साश्चर्य कुम्भलाञ्छनम् / नीलत्विषं सर्वशुभलक्षणं सुषुवे च सा // 29 // युग्मम् 1. वैजयन्तनामके