________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् [ 119 श्रीमल्लिनाथचरितम् / अथ श्रीमल्लिनाथस्य चरितं समयोद्धृतम् / वाच्यं प्राच्यगणाधीशां स्मारं स्मारं गिराम्भरम् // 1 // सर्वद्वीपान्तःसुवृत्तं द्वीपं जम्बूपलक्षितम् / तत्र पश्चिमदिग्वृत्तिविदेहेषु विभूषणम् // 2 // विजयः सलिलावत्याख्यया तस्मिन् सविस्मया / वीतशोकाऽन्विता नाम्ना युक्ता लोकैश्च तादृशैः // 3 // बलवान् बलनामास्याः पुर्याः स्वामी महामनाः / महाबलं सुतं राज्ये न्यस्यादत्त स्वयं व्रतम् // 4 // महाबलस्याऽपि सूनुबलभद्र इति क्षितौ / जातः सदावदातश्रीः प्रातःसूर इव श्रिया // 5 // यौवराज्ये नियोज्यैनं मित्रैः षभिः 'सहाऽन्यदा / शुश्राव श्रावकाचीर्ण धर्म शर्मनिबन्धनम् // 6 // उन्मूखीभूय स सखीन जगादाहं भवाद् भयम् / प्राप्तोऽस्मि प्रव्रजिष्यामि जेष्यामि चान्तरद्विषः // 7 // तेऽप्यूचुर्न वियोगं वः सोढारः क्षणमप्यतः / सहैव प्रव्रजिष्याम इति तैनिश्चितं मिथः // 8 // स्वस्वपुत्रेषु राज्यानि न्यस्य षट् ते समागताः / तदा महाबलः सार्द्ध प्राबाजीत् तैः सुसङ्गतैः // 9 // यत् तपः कुरुतेऽत्रैकस्तत्कार्य सखिभिः परैः / - एवं प्रतिज्ञातमेभिः सप्तभिः समलिप्सया // 10 // अस्मिन् भव इवाग्रेऽपि स्यामहं हि महद्धिभाक् / महाबलो विमृश्येति तपोऽकार्षीत् ततोऽधिकम् // 11 // यदा चतुर्थ ते चक्रुरस्पष्टं षष्ठवानयम् / महाबलः षष्ठभृत्सु तेष्वभूदष्टमी स्वयम् // 12 // शिरात्तिर्मेऽद्य जठरे यद्वा बाधा ममाऽधुना / इत्याधुत्तरयाँश्चक्र वक्रेणाऽयं स्वचेतसा / / 13 / / सास्वादनगुणेऽभ्येत्य मायया कर्म बद्धवान् / स्त्रीवेदवेदी येनाऽभूदये जाते भवान्तरे / 14 / 1. अचलः, धरणः, पूरणः, वस्तुः, वैश्रवणः, अभिचन्द्रः /