________________ 118 ] . महोपाध्यायश्रीमन्मेघषिजयविरचितम् [ श्रीदत्त - प्रह्लादः सिंहनादेनोनादयन् सांबरं दिशः / उत्तरश्रेणितिलके पुरे सिंहपुरेऽधिपः // 9 // वाराणस्यामग्निसिंहः क्ष्माभृदिक्ष्वाकुवंशजः / / तस्य स्त्रियौ जयन्त्येका शेषा शेषवती वरा // 10 // . जीवो वसुन्धरस्याद्यात्मजोऽभूद् बलभद्रकः / अपश्यच्चतुरः स्वप्नान् माता ख्याता गुणोदयैः // 11 // पिता न्यधान्नन्दनारव्यां सर्वेषां धननन्दनात् / सप्त स्वप्नांश्च पश्यन्ती शेषवत्यपि गर्भिणी // 12 // दत्तनामादधौ तस्य पिता वश्यः स तद्गुणैः / नीलपीताम्बरधरौ तौ षइविंशधनून्नतौ / 13 / मिथः स्निग्धौ विदग्धौ तौ कलां जगृहतुर्गुरोः / जीवो ललितमित्रस्य हरिः श्यामो बलोऽन्यथा // 14 // अनयोः शासनेऽनेकपावकेऽनेकपः शुभः / सुलक्षणाङ्गस्तं मत्वा प्रतिविष्णुरयाचत // 15 // अदानाद् वैरमुत्पन्न प्रह्लादश्चाभ्यषेणयत् / अदैन्यसैन्ययोर्युद्धे जयश्रीराप चापलम् // 16 // प्रहलादचालितं चक्रं वक्रं जज्ञेऽस्य पाप्मना / मनागपि हरेर्वक्षः स्पृष्ट्वाऽस्थात् तत्कराम्बुजे // 17 // हरिणा प्रतिमुक्तं तत् प्रतिविष्णुमहन्नहो / पुण्यानुगुण्यादन्योऽपि स्वः स्यात् स्वोऽप्यन्यथा परः // 18 // अर्द्धचक्री सप्तमोऽयं त्रिखण्डी भरतार्द्धजाम् / स्वीकृत्योद्धृत्य च कोटिशिलां ययौ स पञ्चमीम् // 19 // कौमारे द्वे वर्षशते मण्डलित्वे शतार्द्धकम् / ... वर्षाणां दिग्जयेऽप्येतत् व्यतीयाय हरिः सुखात् // 20 // षट्पश्चाशतमब्दानां सहस्राण्यायुरप्यभूत् / सीरभृत् पञ्चषष्टयब्दसहस्रान्ते ययौ शिवम् // 21 // इति श्रीलघुत्रिषष्टीयचरिते दत्तचरितं सम्पूर्णम् // श्रीः ग्रं. 21 श्लोकाः