________________ चरितम् / लघुत्रिषष्टिशलाकापुरुषचरितम् [ 117 रामेण मुक्तः परशुः सोऽपि विध्यातरुक् तदा / अन्यशस्वासत्त्यभावे स्थालचक्रं बभूव सः / / 42 / / सुभूमस्तेन चक्रेण रामशीर्ष समाच्छिनत् / चक्रवर्त्यष्टमः स्पष्टः पुष्पवृष्टया सुरैः कृतः // 43 // निर्ब्राह्मणामिमां भूमिमेकविंशतिवारकान् / व्यधत्त मत्तः क्रोधेन वाहयन् शोणितापगाः / 44 / चक्रावक्राध्वना चक्री साधयामास मेदिनीम् / भारती सारतीर्थादिदेवा सेवाहितार्चिषा / 45 / कौमारेऽब्दसहस्राः स्युः पञ्चपञ्चशतीयुताम् / मण्डलित्वे वर्षपश्चसहस्री निरवाहयत् // 46 // वर्षपञ्चशतीन्यूनमर्द्धलक्षसमाः क्रमात् / चक्रभृत्त्वे निनायैष रौद्रध्याननिधानधीः // 47 // धातकीखण्डभरतपट्खण्डीसाधनाशया / ममज्जाऽब्धौ सप्तमी च स ययौ नरकावनीम् // 48 // इति श्रीलघुत्रिषष्टीयचरितेऽष्टमचक्रिसुभूमचरितं सम्पूर्णम् // श्री ग्रं. 48 श्रीदत्तचरितम् / श्रीअराहत्तीर्थमध्ये दत्तनामाऽभवत् हरिः / 4. क्रमाक्रान्तं तच्चरित्रं कथ्यते तथ्यया गिरा // 1 // जम्बूद्वीपस्य यः पूर्वविदेहस्तत्र पूर्वरा / सुसीमा क्वाऽपि नो भीमा तस्या राजा वसुंधरः / 2 / विरक्तो विषयान् भुक्त्वा श्रीसुधर्मान्तिके व्रतम् / लात्वा मृत्वा ब्रह्मलोके देवोऽभून्मध्यमद्धिकः // 3 // अत्रैव जम्बूद्वीपेऽस्ति दक्षिणं भरतार्द्धकम् / तस्य शीलपुरे भूपोऽभवन् मन्दरधीरकः // 4 // तद्भाताऽवरजः ख्यातो महाभुजाह्वयो जयी। सूनुर्मन्दरधीरस्य नाम्ना ललितमित्रकः / 5 / खलमन्त्रिगिरा न्यास्थद् राजा राज्ये निजानुजम् / ' ललितश्चलितस्तत्राऽपमानात् कलितः क्रुधा // 6 // बोधसेनमुनेरात्तदीक्षः कृतमहातपाः / खलमन्त्रिवधेऽकार्षीनिदानं निन्दनादिना // 7 // सौधर्मेऽसौधर्मरुचिरुत्पेदे सचिवः खलः / - भवान् भ्रान्त्वाऽत्र वैताढये जातः प्रतिह रिर्महान् // 8 //