________________ 116 ] महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीअष्टमचक्रिसुभूम तद्रुषा पशुरामोऽपि जघानाऽनन्तवीर्यकम् / कृतवीर्योऽङ्गजस्तस्य राज्ये लोकैनिवेशितः / 28 / विद्याधरसुतां तारां परिणीय भुजौजसा / / बुभुजे राज्यलक्ष्मीं सः सलक्ष्मीकां प्रजां सृजन् // 29 // पितुर्वैरात् कृतवीर्यों जमदग्निममारयत् / रामोऽपि हतवानेनं ताराऽगात् तापसाश्रमम् // 30 // तस्याः कुक्षाववतीर्णो जीवो भूपालभूभृतः / महाशुक्राच्च्युतोऽस्याऽभूज्जन्माऽपि तापसाश्रमे // 31 // भूम्यां गृहं विधायैतं तापसाः पशुरामतः / भीतास्त्रातार एवाऽऽसन् पुण्यप्रागुण्यमीदृशम् // 32 // रामपशुः स जज्वाल पृष्टास्ते तापसाः समे / ___ अत्रास्ते क्षत्रियः कोऽपि तेऽप्यूचुः क्षत्रिया वयम् // 33 // धरित्री सप्तकृत्वोऽसौ निःक्षत्रां विदधे बलात् / तापसा वर्द्धयामासुः कार्तवीर्याख्ययाऽथ तम् // 34 // चतुर्दशमहास्वप्नसूचितोऽस्याः सुतोऽधुना।। भूगृहस्य चतुःकोणसाधनान्मातरं जगौ // 35 / / साधिता सकला भूमिर्मयेत्युक्ता प्रसूरपि / तमाह ते पितुर्हन्ता रामो राज्यमशिश्रियत् / 36 / / रामेण पृष्टो मे मृत्युः कस्मादिति निमित्तवित् / प्राह क्षत्रियदंष्ट्राणां यदृष्टौ पायसं भवेत् // 37 // भूमिवेश्मनि वृद्धत्वात् सुभूमो नंदति स्म सः / अष्टाविंशतिधन्वोच्चः सस्मार पितृमारकम् // 38 // मेघनादोऽस्य विद्याभृन् नैमित्तिकगिराऽभवत् / भृत्यः कन्यां निजां दत्त्वा निर्ययौ स ततो बली / / 39 // सभास्थं स्थालमादाय पायसं क्षुधयाऽपिवत् / रामभृत्यास्तदारक्षाः सज्जितास्तद्विघातने / / 40 // बाणानुद्दण्डकोदण्डा मुमुचुर्गुटिकाः स्फुटाः / अस्यसिद्वन्द्वबद्धाशाः मेघनादेन ते हताः // 41 //