________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् [ 115 पतिः प्रियां समाचष्ट त्वयादिष्टो व्रजाम्यहम् / शपथात् प्रत्ययो मे स्यात् पुंसामेकत्र नो रतिः // 14 // यदि त्वमेतत् पापेन निष्क्रय कुरुषे तदा / ___ याहीत्युक्त्या ततः क्रुद्धोऽधृताऽसौ विहगद्वयम् // 15 // किं पापं मयि तद्वाच्यमाह तन्मिथुनं मुनेः / निरपत्यस्य ते सर्व तपोन्तर्गडु साम्प्रतम् // 16 // त्रिभिर्विशेषकम् जमदग्निविवाहाथ जितशत्रु महीधवम् / उपास्थित नृपोऽप्याख्यत् कार्यमार्य ! समादिश // 17 // कन्यादानाय हे भूप ! भवत्पार्श्वे ममाऽऽगमः / कन्याशतस्य मध्ये या त्वामिच्छति गृहाण ताम् // 18 // अन्तःपुरे काऽपि नैच्छद् रेणुव्याप्ततनुं कनीम् / .. वीजपूरप्रदानेन वश्यां लात्वा नृपादगात् // 19 // इमां क्रमात् सतारुण्यां पुण्यलावण्यधारणीम् / उपयेमे जमदग्निरग्निसादकरोद् व्रतम् / 20 / ऋतुकाले चर्स मन्त्रैः साधयामीति तापसः / 'ता पप्रच्छ यतो भूयाद् ब्राह्मण्यसुतसम्भवः // 21 // मत्स्वसाऽनन्तवीर्यस्य प्रिया तस्याः कृते चरुम् / . . क्षात्रं प्रसाधयेत्युक्तोऽसाधयत् स चरुद्वयम् // 22 // . बलवान् मत्सुतो भूयादिति क्षात्रं चरुं स्वयम् / - अभक्षयत् ब्राह्मयचकै स्वरोऽप्रैषीद् विपर्ययात् // 23 // रेणुकायाः सुतो रामो भगिनीकृतवीर्यसूः / ववृधाते मिथः प्रीत्या क्रीडक्रीडनसादरौ / 24 / 'विद्याधरः कोऽपि रोगाद् रामेणाऽयं पटूकृतः / * भेषजायैः सन्तुष्टस्सन् विद्यां पारसवीमदात् // 25 // रेणुकाऽन्येधुरौत्सुक्यात् स्वसुः सङ्गमकैतवात् / - गृहागताऽनन्तवीर्यात् सुतं प्रासूत नूतनम् // 26 // प्रत्यागतां तामवधीत् पशुरामः सहाङ्गजम् / * तनिशम्याऽनन्तवीर्यों भाङ्क्षीत् तं तापसाश्रमम् // 27 //