________________ चरितम् ] लघुत्रिष्टिशलाकापुरुषचरितम् [ 109 वैशाखकृष्णपञ्चम्यां कृत्तिकायां स षष्ठकृत् / पारणा व्याघ्रसिंहस्य गृहे चक्रपुरेऽभवत् // 15 // छामस्थ्ये षोडशाब्दानि व्यतीयुः पुनराययौ / ___ सहस्राम्रवणे स्वामी चैत्राऽसितानले तिथौ // 16 // प्रभोः केवलमुत्पेदे चतुःषष्टिसुरेश्वराः / विदधुर्मधुरां वप्रत्रयीं रैरूप्यरत्नजाम् // 17 // कृतं देवैश्च समवसरणं हरणं शुचाम् / अवतस्थे यथास्थानं श्रीमान् सङ्घश्चतुर्विधः // 18 // ज्ञात्वा च समवसृतं प्रभुमागात् कुरूद्वहः / नमस्कृत्यानुशक्रं च निषसाद कृताञ्जलिः // 19 // पारेभे भगवान् धर्मदेशनां पापनाशिनीम् / विश्वप्रकाशनी मोहव्यपोहात् तत्त्वभासिनीम् // 20 // ध्यानं रौद्रं तथैवात त्याज्यं भवनिबन्धनम् / ग्राह्यमागृह्य धर्मस्य ध्यानं शुक्लं शिवश्रिये // 21 // तदियं मनसः शुद्धिारं मुक्तर्विधीयताम् / __ अशुद्धथा मनसो मत्स्यस्तन्दुली नरकं गमी // 22 // मनःशुद्धथा गुणाकीर्णः श्रेष्ठी जीर्णः प्रदत्तवान् / - भगवत्पारणं बुद्धया तत् पुण्यं चित्तशोधनम् / / 23 / / मुनिर्गतो गोचरार्थी कुर्यात् स प्रतिसेवनाम् / ... आलोचनार्थी म्रियते तथाऽप्याराधकः स्मृतः // 24 // नाऽमुष्य मुख्यं मानुष्यं रागद्वेषवशंवदः / यस्तपः कुरुतेऽत्युग्रं कषायकलुषात्मना // 25 // भगवद्देशनादेशाद् देशाधीशाः सुधाशिनः / तुष्टुवुस्तुष्टिमाधाय तां गिरं त्रिजगद्गुरोः // 26 // पौरुष्यां देशनापूत्तौं स्वयम्भूर्गणभृञ्च ताम् / ददौ द्वितीयपौरुष्यां ययुः स्थानं सुरादयः / 27 / गन्धर्वयक्षस्तत्तीर्थरक्षः श्यामस्स हंसगः / दधदक्षिणदोर्दण्डौ वरदं पाशधारिणम् // 28 // मातुलिङ्गं चाऽङ्कुशं च दधनो वामहस्तयोः / देवी बला शासनस्य गौरागी केकिवाहना // 29 // बीजपूरं तथा शूलं तस्या दक्षिणहस्तयोः / मुसण्ढी कमलं वामहस्तयोः कृतशस्तयोः // 30 // गतेष्वब्दसहस्रेषु त्रयोविंशेषु केवलात् / चतुस्त्रिंशत्सहितेषु शतेष्वपि च सप्तसु // 31 //