________________ 108 ] . महोपाध्यायश्रीमन्मेघविजयविरचितम् / श्रीकुंथुनाथ श्रीकुंथुनाथचरितम् / अथ पृथुयशाः कुन्थुस्तीर्थकृत् प्रार्थितार्थदः / प्रस्तूयते चरित्रार्थ स्वार्थ साधयता मया // 1 // जम्बूद्वीपे प्रागविदेहेष्वावर्तविजये पुरी। खगिकेति क्षितिख्याताऽवदाता रत्नतेजसा // 2 // सिंहावहस्तन्नरेशः सदेशः पुण्यतेजसाम् / __संसारासारतां मत्वा वैराग्याद् व्रतमाददे // 3 // . बद्धाऽर्हन्नामकर्मायं निर्मायं स्थानविंशतिम् / तपसाऽऽराध्य सर्वार्थसिद्धौ देवत्वमाप्तवान् // 4 // जम्बूद्वीपान्तरे ख्याते भरते हास्तिनंपुरम् / शूरः कल्पद्रुमाङ्कुरस्त्यागे रागेण भूयसा / 5! भूभुजो महिषी नाम्ना श्रीर्धाम्ना श्रीरिवाङ्गिनी / सिंहजीवस्ततश्च्युत्वा तस्याः कुक्षाववातरत् // 6 // नवम्यां श्रावणाशुक्ले कृत्तिकेन्दौ तदागमात / चतुर्दशस्वप्नदृष्टिः स्वर्णवृष्टयादि चाऽभवत् // 7 // राधकृष्णचतुर्दश्यां साऽसूत सुतमुत्तमम् / / कौस्थुडत्वात् कुन्थुरिति प्रफुल्लतरुदर्शनात् // 8 // नामाऽस्य विदधे प्रेम्णा जनकः कनकत्रजैः / . वर्षन् जहर्ष पार्षद्यैः स्तूयमानो घनैर्जनैः // 9 // राजयोगविधानेन ककुत्स्थ इत्युदीर्यते / दिक्कुमार्यागमेन्द्रादिपर्व प्राग्वत् तदाऽजनि // 10 // पुष्टोऽङ्गुष्ठसुधापानात् पञ्चत्रिंशद्धनूनतः / अनुरोधात् प्रभुः पित्रोरुपयेमे नृपाङ्गजाः / 11 / पितुराज्ञाबलात् राज्यमपि स्वीकृत्य मण्डली / चक्ररत्नादिरत्नानां साहाय्याच्चक्रवर्त्यभूत् // 12 // त्रयोविंशत्यब्दरूपसहस्राणां व्यतिक्रमे / सार्द्धाष्टमशतीयोगे चक्रित्वमभवद् विभोः // 13 // लोकान्तिकसुरेर्वाचा प्रोत्साहितमतिः स्वयम् / बुद्ध्वा ददौ दानमाब्दं सिद्धान्नत्वा व्रतं ललौ // 14 //