________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् [ 105 चन्द्रसूर्यदर्शनादि कारितं सोत्सवं भृशम् / नामादधे विधेःपित्रा शान्तिरित्यर्हतोऽन्वयात् // 381 // अङ्गुष्ठाऽमृतपानेन पुष्टः शिष्टश्च दक्षिणः / ववृधे भगवान् रम्यलक्षणैः कृतलक्षणः // 382 // कारुण्यपूर्णस्तारुण्ये धन्याः कन्या अनेकशः / पित्रा विवाहितास्तासां मध्ये मुख्या यशोमती // 383 // पञ्चविंशतिर्वर्षाणां सहस्राणि ययुर्यदा / पित्रा कुमारः स्वे राज्ये भगवान् विनिवेशितः / 384 / अथ दृढरथस्याङ्गी च्युतः सर्वार्थसिद्धितः / चक्रस्वप्नाद् यशोमत्याः कुक्षाववातरन्निशि // 385 // जातस्य समये सूनोश्चक्रे चक्रायुधाऽभिधा / ___चक्रिणा राजतनया विनयात् परिणायिता / / 386 / / चक्रमायुधशालायामुत्पेदे क्रमतोऽर्चनाम् / - कृत्वा तदीयां षट्खण्डं भरतं स्ववशेऽनयत् // 387 // षट्खण्डी भारती जित्वा प्राविशद्धस्तिनापुरम् / देवोऽस्य भूपैविदधेऽभिषेको द्वादशाब्दिकः // 388 / / पञ्चविंशतिवर्षाणां सहस्राँश्चक्रिता कृता / शान्तिनाम्ना स्फुरद्धाम्ना षोडशेनाऽर्हता ततः // 389 // लोकान्तिकब्रह्मलोके रिष्टप्रतरवासिनः / सारस्वतादयोऽभ्येत्य चक्रुर्जयजयारवम् // 390 // दीक्षासमयविज्ञप्त्या स्वयमप्यवगत्य तम् / कर्तुं सांवत्सरं दानं प्रवृत्तः सुरसन्निधेः // 391 // सर्वार्थसिद्धिं नाम्नाऽत्र शिविकामाश्रितो जिनः / कृताभिषेकः सर्वेन्द्रीतैर्गीतश्च गायनैः // 39 // पार्नटद्भिः सुभटैः परीतः स्फीततेजसा / वाद्यमानेषु वाद्येषु स समाल्यविलेपनः // 393 // सहस्राम्रवने सिद्धान् नमस्कृत्याग्रहीद् व्रतम् / कुन्तलाँश्च सहस्राक्षश्चिक्षेप क्षीरनीरधौ // 394 // . ज्येष्ठासितचतुर्दश्यां भरणीचरणे विधोः / . दीक्षां जग्राह सोत्साहः सहस्रेण सह प्रभुः // 395 // 'ल. त्रि. 14