________________ महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीशांतिनाथ सुमित्राख्यगृहे षष्ठपारणाऽभूत् तदाहती / पञ्च दिव्यान्यजायन्त भूमा भूमावतिश्रियाम् // 396 // मनःपर्यवमुत्पन्नं चतुर्ज्ञानधरस्ततः / विजहार धरापीठे भगवान् निर्मलाशयः // 397 // सत्त्ववान् तत्त्ववित् पौषेऽवदातनवमीतिथौ / / ___ याम्येन्दौ षष्ठतपसि घातिकर्मक्षयं व्यधात् // 398 // प्रपेदे केवलज्ञानं पुरे तत्रैव तद्वने / इन्द्राः सर्वे महं ज्ञात्वा चक्रुः पञ्चमचक्रिणः // 399 // वप्रत्रयीं स्वर्णरूप्यस्फुरन्मणिमयीं व्यधुः / / ___ यथायोगं सहाभोगं पीठच्छत्रादि देवताः // 400 // द्वाराणि विहितान्यस्यां चत्वारि तोरणान्यपि / मध्येऽशोकः प्रभोर्दैहात् स्याद् द्वादशगुणस्तरुः // 401 // सिंहासनानि चत्वारि प्रत्येकं छत्रचामरे / __ प्रविश्य पूर्वद्वारेण तीर्थ नमन् स्थितो जिनः // 402 // शेषासनेषु प्रतिमाः पृष्ठे भामण्डलं ज्वलत् / / ___ जानुप्रमाणा पुष्पाणां वृष्टिस्तुष्टैः कृताऽसुरैः // 403 // नेदुर्दुन्दुभयो व्योम्नि पर्षदः सालमध्यगाः।। उपाविशन् द्वादशाऽपि शुश्रुवुर्जिनवाकसुधाम् // 404 // द्वितीयवप्रान्तराले तिर्यञ्चस्तस्थुरुन्मुखाः / __ वाहनानि तृतीये च वने स्थाप्यानि चान्तरे // 405 // यक्षोऽस्य तीर्थरक्षायां गरुडो गजवाहनः / क्रोडास्यः श्यामलो बीजपुराजे दक्षिणे दधत् // 406 // वामेऽक्षसूत्रं नकुलं बिभ्राणो यक्षिणी पुनः / निर्वाणी दक्षिणे पुस्तमुत्पलं दधती सती // 407 // वामेऽस्याः कमलं पाणौ कमण्डलु च तत्परे / चक्रायुधाद्याः षट्त्रिंशजाता गणधराः प्रभोः // 408 // 1. अतिश्रियां भूमा बाहुल्यं भूमौ पृथिव्यां /