________________ 100 / महोपाध्यायश्रीमन्मेघविजयविरचितम [ श्रीशान्तिनाथ समादिश दिशां नाथाऽस्माकं सौख्यं भवेद् यया / कुरुतां धर्मकर्माणि प्राणिरक्षामतः परम् // 307 // इत्यहद्वचसा शान्तावभूतां भूतनायकौ / प्राञ्जली जिनमानम्य विमानेन गतौ पदम् / 308 / लोकान्तिकसुरैरेत्य धर्मतीर्थ प्रवर्त्तय / तैरित्युक्तः स्वं समयं मत्वाऽर्हन् व्रतमाददे / 309 / विजहार धरापीठे भव्यजीवान् विबोधयन् / राजा दृढरथो देवरमणोद्यानमाययौ // 310 // तत्र भूतैः समुद्भूतैश्चक्रे प्रेक्षणकं पुरः / तदा नार्या सह प्राप्तस्तत्र कश्चन खेचरः // 311 // वैताढ्यादुत्तरश्रेणेरलकापुरभूपतेः / विद्युद्रथस्य तनयो नाम्ना सिंहरथोऽस्त्ययम् // 312 // वेगवत्या स्वप्रियया समं नन्तुं जिनान् गतः / ___द्वीपे च धातकीखण्डे वलमान इहाऽगमत् // 313 // देव्या पृष्टो नृपः प्रोचे तस्य प्राग्भववैभवम् / क्वचित् सिन्धुपुरे राजा सुगुप्तस्तत्र नीतिमान् // 314 // कुलपुत्रः पुरे कश्चित् तत्पुरे शंखिकापतिः / निर्धनो धनवद्गेहे कर्मकृवृत्तिमाश्रयत् // 315 / तेन धर्मः कृतः श्रुत्वा साधोः कस्याऽपि सन्निधौ / कल्याणकतपस्तेपे तस्यादावष्टमत्रयी // 316 // चतुर्थास्तत्परं कार्या द्वात्रिंशद् विधिरीदृशः / तत्पारणादिने साधुभक्तिः कार्या स्वशक्तितः // 317 // सुगुप्तः सहितस्तेन चारित्रं प्राप्य सत्तपः। __ आचाम्लवर्द्धमानाख्यं चक्रे शक्रेण वन्दितः // 318 // ब्रह्मलोके सुरो भूत्वा मृत्वा सिंहरथोऽभवत् / शंखिकाऽपि तपः कृत्वाऽभवद् वेगवती प्रिया // 319 // स्वं चरित्रं समाकर्ण्य पुत्रं राज्ये निवेश्य सः / सिंहरथः प्रवत्राज कैवल्यात् सिद्धिमीयिवान् // 320 / / अथ मेघरथोऽन्येचुर्गृहीत्वा पौषधं सुधीः / योगासनेनोपविश्य विदधे धर्मदेशनाम् / 321 / अत्रान्तरे कोऽपि कंप्रः कपोतः पोतवद् रुदन् / नृपोत्सङ्गेऽपतत् भीतो रक्ष रक्षेति गीः पुरः // 322 //