________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् [ 101 तावद्रसेन श्येनोऽपि पृष्ठगः काममागमत् / मुधा क्षुधातुरस्यैतद् भक्ष्यं मा रक्ष मे नृप / / 323 / / निशम्य सम्यक् तद्वाचमुवाच शरणागतः। रक्षणीयो मया पक्षी कक्षीकृत्य दयां भयात् // 324 // क्षतात् त्राणं मम प्राणं क्षत्रियस्य न वेत्सि किम् ? / रक्षतात् त्वं निजप्राणं धन्याऽऽजीविकयाऽन्यया // 325 // परप्राणैर्निजप्राणधारणं पापकारणम् / नरकप्रापकं चैतत् कर्म नो शर्मणे क्वचित् // 326 // यतः-हिंसाविपर्यस्ततयैव साहिं वदन्ति यस्तं प्रतिपाति साहिः / स पाति साहि वि पादसाहिः स्यात् पादशब्दस्य हि पूज्यतोक्तेः // 327 // शरण्यः पुण्यनैपुण्याद् गण्यते धुरि धर्मिणाम् / यः परप्राणहृत् प्राणी वाणीभवति कोऽस्य यत् // 328 // यदि ते विपदि त्राणमुचितं मम साम्प्रतम् / नूनं सनापलात्तृप्तो भूया इत्यवदन्नृपः / 329 / इतः परं न मे प्राणाः स्थातुं क्षणमपि क्षमाः / सूनापलान मे कार्य धार्य मांसं तु सत्वरम् // 330 // श्येनेनाभिहिते चै छित्त्वा मांसं निजोरुजम् / कपोततुलितं दातुं प्रवृत्तश्चित्तसाहसात् / 331 / .भाराधिक्यं कपोतेऽस्मिन् नाशंक्याशक्यविक्रमः / क्रमात् स्वाङ्गं विनिक्षेप्तुमुद्यतोऽभून्नराधिपः // 332 // लोका अस्तोकशोकेन तदालोकात् किलाऽऽकुलाः .. अविचार्य किमेतत् त्वं कुरुषे पुरुषेश्वर ! // 333 // वदत्येवं रुदत्युच्चैः पौरे राजा जगाविदम् / : निषादवानरीवृत्तं हिंसाऽहिंसाफलोक्तिकम् // 334 // अत्र वानरीनिषाददृष्टान्तःश्येनोऽप्याह न निर्वाहः प्राणानां यद् बुभुक्षिते / प्रियदर्शनसर्पस्यात्रार्थे ज्ञेयं निदर्शनम् // 335 / अत्राऽपिदृष्टान्तः - अङ्गी स्वाङ्गीकृतं धर्म तन्वन्नन्वयभूषणम् / दूषणं तदनिर्वाहे इत्यारोहन्नृपस्तुलाम् // 336 //