________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् [ 93 उपयेमे यौवनस्थः स कनी कनकश्रियम् / तस्यां शतबलः सू नुरासीद् राशीभवद्गुणः / 199 / इतश्च चित्रचूलाख्यः सुरो राज्ञि सभास्थिते / / ईशानवासी मिथ्यात्वं प्रपन्नः समुपेयिवान् // 20 // नास्ति जीवोऽप्यजीवो वा पुण्यं पापं ततः कुतः / कुतस्तरां परो लोकः सिद्धौ कश्च कुतस्तमाम् // 201 // वज्रायुधकुमारोऽस्मै प्रत्युत्तरमदादिति / कथं विश्वस्य वैषम्यं सुखदुःखादिना कृतम् / 202 / प्रकृतेर्भेदतश्चेत् तद्भेदकृत् कोऽपि निश्चितः / स एव जीवोऽजीवोऽन्यस्तन्मान्ये पुण्यपातके // 203 // त्वमेव प्राग्भवे देवगुरुधर्मविधेरभूः / साम्प्रतं साम्प्रतं वस्त्रं रक्तं रागप्रसङ्गतः // 204 // एवं प्रबुद्धो देवोऽपि दत्त्वाऽस्मै भूषणं वरम् / ईशानेशपुरःस्तुत्या सोऽप्यागत्यैनमस्तवीत् // 205 // षोडशस्तीर्थकद्भावी जम्बूभरतमध्यगः / इत्याख्याय तमभ्यर्च्य सुरेशोऽगात् त्रिविष्टपम् // 206 // स्त्रियाः प्रेरणयाऽन्येद्युः कुमारो वापिकाजले / - सवनं स वने कुर्वन् विद्युदंष्ट्रेण रोधितः // 207 // स देवो दमितारेश्च जीवो प्राग्भववैरतः / भवान् कृत्वा बहूँस्तत्रोपदुद्राव भवान्तरे // 208 // बबन्ध नागपाशेन कुमारं वापिकाऽपि सा / शैलेन पिहिता दूरीचक्रे तत्क्षणतोऽप्ययम् // 209 // अत्रान्तरे बलप्रेक्षाविस्मितो भाविनं जिनम् / विज्ञाय प्रणतः शक्रो यियासुनन्तुमर्हतः / / 210 / / इतो लोकान्तिकैर्देवैदीक्षासमयबोधनात् / धर्मतीर्थ वर्त्तयस्वेत्युक्त्या क्षेमकरो जिनः / 211 // वज्रायुधं न्यस्य राज्ये सांवत्सरिकदानकृत् / प्राप्तदीक्षो विहृत्योर्ध्या केवलज्ञानमाप्तवान् // 212 // निर्मितं तत्र समवसरणं भक्तितः सुरैः / तत्र स्थित्वा जिनो धर्मदेशनां च दिदेश सः // 213 //