________________ 92 ] महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीशांतिनाथ अनन्तवीर्यजीवोऽभूत् मेघनादस्तयोः सुतः / संप्राप्तदीक्षे पितरि जज्ञे श्रेणिद्वयीप्रभुः / 183 / एकदा स सुरेन्द्रेण नीतो नित्यजिनौकसि / प्रतिमास्तत्र सद्भक्त्या पूजयामास शाश्वतीः // 184 // तत्र देवाः समाजग्मुजिनपूजां चिकीर्षवः / तन्मध्ये सोऽच्युतेन्द्रोऽपि तं दृष्ट्वाऽऽलापयन् मिथः // 185 // तयोः स्वभववृत्तान्तकथनाजातसख्ययोः / __गतेऽच्युतेन्द्रे राजाऽपि प्रापद् गगनवल्लभम् // 186 // गुरोः अमरसूर्याख्यात् चारित्रं प्रतिपन्नवान् / पर्वते नन्दने गत्वा तेपे दुस्तपनं तपः / 187 / तत्राऽप्यश्वग्रीवसुता सुरेणोपद्रवे कृते / अक्षुब्धचेताः सद्ध्यानात् प्रतिमामेव संदधे // 88 // . तस्थिवान् निशि तत्रैव प्रातर्विहृतवान् भुवि / प्रबोध्य भव्यान् वचसा रसाद्धर्ममदीदिपत् // 189 // प्रान्ते समाधिमाधाय ध्यायन् श्रीपरमेष्ठिनः / सुरोऽभूदच्युते कल्पे पुण्यनैपुण्ययोगतः / 190 / ___इति श्री लघुत्रिषष्टीये चरिते श्रीशान्तिजिनषष्ठसप्तमभववर्णनम् // जम्बूद्वीपेऽथ विजयः प्राग्विदेहेषु भासुरः / / __ सीतोदायास्तटे तत्र नाम्नाऽऽसीन् मङ्गलावती // 191 // रत्नद्यरत्नसापत्न्यात् सपत्नस्तजये भृता / भासयन्ती दिशो रेजे नगरी रत्नसश्चया // 192 // तत्र क्षेमंकरो राजा भविष्यत्तीर्थकृत् स्वयम् / रत्नमाला प्रिया राज्ञस्तत्कुक्षौ समवातरत् // 193 // अपराजितजीवस्तत्सम्भवात् स्वप्नसश्चयम् / अपश्यजननी हस्तिप्रमुखं ज्वलनान्तिमम् / 194 / चतुर्दश महास्वप्नानन्तरं वज्रमुत्तमम् / दृष्ट्वा हृष्टाऽतितुष्टात्मा भर्ते सर्वानचीकथत् / 195 / पुत्रश्चक्रधरो भावीत्यादिष्टा भूभुजाऽर्हता / सुषुवे साङ्गजं राजा व्यधाद् वज्रायुधाभिधाम् // 196 // जग्राहाऽनाग्रहादष्टवर्षोऽयं सकलाः कलाः / लक्ष्मीवतीं नाम कन्यां यौवने परिणीतवान् // 197 / / अनन्तवीर्यजीवोऽपि लक्ष्मीवत्युदरं श्रितः / क्रमात् प्रसूतः समये सहस्रायुधनामभृत् / 198 /