________________ 94 ] महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीशान्तिनाथ भव्यैः 'सव्यासमासेव्यो धर्मः शर्मविधायकः / सम्यकपरीक्षितो दक्षैर्न पुनश्चापरीक्षितः // 214 // दुग्धं पेयमिति श्रुत्वा यस्तत्त्वातत्त्वविन्न वै / तस्यार्कदुग्धपानेनांत्रशाटाद्दःखमुद्भवेत् / 215 / गोदुग्धपानतः स्पष्टं तुष्टिः पुष्टिविशेषतः / ___ अविचार्य कृतं कार्य दोषायान्यत् तदन्यथा // 216 // अत्र रोगप्रयोगस्य नाशकः सहकारकः / तदुच्छेदननिर्वेदी नृपस्तस्य कथाश्रुतिः // 217 // तदन्तरे देवराजवत्सराजादिभिः कृता / कथा षष्ठाङ्गसुस्पष्टा वक्तव्या बोधिशोधये / 218 / क्षेमंकरप्रभोर्वाचामाचामाद् बहवो जनाः / बुद्धाः शुद्धाशयास्तीर्थ ततः प्रववृतेतराम् // 219 / / वजायुधनृपस्याविबभूवे चक्रमुज्ज्वलम् / __ आयुधालयमध्येऽपि षट्खण्डी सोऽप्यसाधयत् // 220 // एकदाऽस्मिन् सभासीने कंप्रांगोभयरुद्धगीः / विद्याधरो धरामेत्य शरणं तं प्रपेदिवान् / / 221 // तत् पृष्ठे खचरश्चैको गदां बिभ्रददभ्रधीः / विद्याधरी पुनश्चैका खड्गखेटकधारिणी / 222 / : ऊचे विद्याधरश्चक्रिन सुकच्छविजये पुरी / शुक्लाऽभिधा शुक्लदत्तनामा तत्र महीधवः / 223 / पुत्रः पवनवेगोऽहं सुकान्ता मम गेहिनी / तत्कुक्षिसम्भवा शान्तिः पुत्री चित्रीयितप्रजा // 224 // प्रज्ञप्तिविद्या महत्तां साधयन्तीमपाहरत / तां चैतस्याऽपि संसिद्धा विद्या तद्भक्तिरञ्जिता // 225 // अहमप्यागतो ज्ञात्वा श्रितं त्वच्छरणेऽप्यमुम् / मुञ्चैनं पापिनं येन गदया हन्मि जन्मिनम् // 226 // अवधिज्ञानतश्चक्री तत्पूर्वभवचेष्टितम् / स्मृत्वा प्रोवाच तद्धेतुं शृणु खेचर साम्प्रतम् / 227 / जम्बूमध्यरावताख्ये क्षेत्रे वन्ध्यपुरप्रभुः / वन्ध्यदत्तः प्रियाऽस्याऽभूत् सुलक्षणा विचक्षणा // 228 // पुत्रो नलिनकेतुश्च तत्पुरे सार्थनायकः / धर्ममित्रः पवित्रात्मा श्रीदत्ता चित्तरञ्जनी / 229 / 1. सविस्तरम्