________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् तच्चारणाद्या ऋषयो यान्ति नन्दीश्वरादिषु / चैत्यवैयावृत्त्यकृत्यं तपोऽभ्यन्तरमुच्यते / / 111 // इतस्तत्रागतं व्योम्नोऽवतीर्य चारणद्वयम् / जयी राजा तत् प्रणामं कृत्वा धर्म ततोऽशृणोत् // 112 // नृभवं दक्षिणावर्त्तशङ्खवद् दुर्लभं विदन् / निःप्रमादधिया धेयमत्राऽमुत्र हितावहम् // 113 // निरन्तरायधर्मेण निरन्तरसुखोदयः / अपायतः सुखापायो मत्सोदरनिदर्शनात् // 114 // अत्राऽपि तत्कथा वृद्धश्रीशान्तिचरितात् ज्ञेया / ( ) तच्छ्रत्वाऽमिततेजाः स तथा श्रीविजयो नृपः / द्वौ प्रसिद्धौ धर्मकार्ये चक्रतुस्तीर्थवन्दनम् // 115 // द्वे यात्रे शाश्वते तीर्थे तदन्यत्र तृतीयिका / एका चैत्रे शुक्लपक्षेऽष्टाहिकायां पराश्विने // 116 // तद्धर्मदर्शनादन्ये भूचरा भूभृतस्तथा / तीर्थपूजां स्वस्वदेशे चक्रुर्गुरूपदेशतः // 117 // ताभ्यामचलदेवस्य केवलस्थानयात्रया / * पवित्रं स्वं विधायोच्चभैरौ नन्तुं जिनान् गतम् // 118 // चारणश्रमणादायुः षइविंशति दिनावधिः / मत्वाऽभिनन्दनमुनेः पार्श्व जगृहतुर्वतम् / 119 / तत्र श्रीविजयेनैवं निदानं कृतमीदृशम् / पितुस्तुल्यं बलं मेऽस्तु संस्तुतं वस्तुतः सुरैः / 120 // " द्वावपि प्राणते कल्पे सुरावमिततेजसौ / : जीवोऽभून्नन्दिकावर्ते दिव्यचूलाख्ययाऽमरः // 121 // जीवः श्री विजयस्याऽपि स्वस्तिकावर्त्तनामनि / - मणिचूलसुरो जज्ञे सुदृष्टिस्तीर्थरक्तधीः // 122 / / ___इति श्रीलघुत्रिषष्टीये शान्तिचरिते चतुर्थपञ्चमभववचनम् // जम्बूद्वीपेत्र पूर्वस्मिन् विदेहे विजयेऽभवत् / . __ रमणीयाह्वये नाम्ना सुभगा नगरी वरा // 23 // भूपः प्रतापी सत्कीतिर्नयी स्तिमितसागरः। सागरावधिविख्यातविधी रञ्जितनागरः // 124 // वसुन्धराद्याऽनुद्धरी च स्त्रियौ तस्य मनोहरे / वसुन्धरायामुत्पेदे जीवोऽथाऽमिततेजसः // 125 //